________________
पञ्जिका (सर्ग९)
४८७ कुर्याः, किं विशिष्टस्त्वं ? प्रेयसी चासौ जयश्रीश्च प्रेयोजयश्रीस्तस्या वरणंपरिणयनं, तत्रोत्सुकः-सोत्कंठः । भर्तुः प्रतिवचनं । हे प्रिये ! बहलीश्वरस्यबाहुबलेः, पुरस्ताद्-अग्रे, मम जयश्रीप्रतिलम्भः कुत एव। मम दूरगाया इत्यत्र षष्ठी। विस्मरणे तु केचित् कमवांगीकुर्वन्ति । तत्पक्षे मम दूरगायाः प्रेयो वस्तु मा विस्मारये-इति योज्यं ।
१८. . इत्थं वि० । इत्थं-पूर्वोक्तप्रकारेण युवद्वयीनां-तरुणतरुणीयुगलानां, विविधाः
प्रलापाः विचेरुः-विचरंतिस्म । किं विशिष्टाः प्रलापाः ? विरहातिदीनाः । हि-यतः, निरंतरे-निर्व्यवधाने, प्रणयातिरेके-स्नेहाधिके सति विप्रयोग:विरहः, हृदालये-मनोगेहे, शल्यति-शल्यवद् भवति-इति द्विभंगोन्वयः । इति श्लोकनवकस्याप्यर्थो दंपतीप्रवृत्तिमयो व्याख्यातः ।
१९. कान्तयं० । तदानीं-तस्मिन् प्रयाणसमये, कान्तः-भर्तृभिः, प्रबंधाद्-आग्रहात्,
दयिता:-वल्लभाः, मुहुः-भूयः, निवार्यन्त-निवारिताः। किं कुर्वत्यः ? सह व्रजन्त्यः-सार्द्धमागच्छन्त्यः । किं विशिष्टः कान्तः ? स्वस्वामिकृत्येषुस्वपतिकार्येषु, अधिकं दत्तं चित्तं-मनो यैस्ते तैः । कैः का इव ? यथा शैलैःपर्वतः, आपतन्त्यः-आगच्छन्त्यः, तटिन्यापो-नदीजलानि निवार्यते ।
२०. विषीद० । प्रियाल्या-प्रिय सख्या, इति प्रबोध्य-कथयित्वा, काचिद् गृहं
निन्ये-प्रापिता। इतीति किं ? हे तन्वि ! त्वं मा विषीद-मा विषादं कुरु । त्वं आलयं गृहं, स्व-निजं, चर-व्रज, त्वं सार्जेनास्र:-सकज्जलवाष्पैः मुखं श्यामं मा कुरु । ते-तव, दयिता-भर्ता, श्वः प्रभाते, समेता-समेष्यतीति, पंचभंगोन्वयः।
२१. वियोगतः । सख्या काचिन् मृगाक्षी स्वगृहमनायि-प्रापिता । किं कृत्वा ?
तालवृन्तानिल:-व्यजनवायुभिः, चैतन्यं-संज्ञानं, आपय्य-अनाय्य । किं कुर्वती ? विसंस्थुलं-व्याकुलतया चीवराद्यसंभालनशक्तिपूर्वं यथा स्यात् तथा, प्राणपते:-भर्तुः, वियोगतः-विरहात्, पाणिधृतापि-हस्तधारितापि, पतंती भूम्यामिति शेषः ।
. २२. अमुंच० । काचित् प्रमदा सख्येरितापि-सख्या भणिताऽपि, उत्तरं नार्पयन्-न
ददौ । किं विशिष्टा काचित् ? गलद्वाष्पजलाविलाक्षी-पतदश्रुजलम्लानलोचना, किं कुर्वती ? विमोहात्-मौढ्याद् इदं स्थानममुञ्चती-अत्यजंती। पुनः किं कुर्वती ? प्रेयःपदन्यास-प्रियचरणविन्यासं, अनुव्रजन्ती-अनुगच्छंती।