________________
४८८
भरतबाहुबलिमहाकाव्यम् २३. का विप्र० । अथ-अनन्तरं, सख्या काचित्-वधूः, इति-अमुना वाक्येन, दधे
धृता, कथमपि रक्षितेत्यर्थः । इतीति किं ? हे मुग्धे !, तव-भवत्या, अद्यअधुना, सकलानुभूति:-सर्वोनुभवः जायते । का विप्रयुक्तिः-को विरहः । चसमुच्चये, प्रणयः-स्नेहः, कीदृक्-किं स्वरूपः । विषण्णता-विषादवत्ता का त्वमियमितीरणेन-एवं भणनेन पुरा मुग्धासीति षड्भंगोन्वयः।। अशोक० । काचिद् वधूलतेव अशोक-कंकेल्लिपादपं, आलंब्य-आश्रित्य; नेत्राश्रु जलैः इतीव सिषेच-सिक्तवती। इतीति किं ? एष प्रवृद्धः अशोक: सेकात्-सेचनतः, दयितागमेन-भर्तुरागत्या, मां अशोकां-शोकरहिता विधास्यते ।
२५. खिन्नेव० । काचिद् बाला विरहातिभारात् खिन्नेव-खेदवतीव, अतूर्ण एता- .
आगता। किं कुर्वती ? पदे पदे गलद्भिः वाष्पजलैः-क्षरभिरश्रृंवारिभिः, मुक्ताफलैरिव . प्रेयपदन्यासरजांसि-प्रियचरणविन्यासधूली:, अवकिरन्तीवर्धापयंती।
२६. कान्तस्य० । सख्या काचिदेवं संभाष्य-संबोध्य,' अवालि-वालिता।
एवमिति किं ? हे बाले ! त्वमत्र स्थिता किं वितनोषिकिं करोसि ? हिनिश्चितं, त्वया-भवत्या, यातस्य-कृतप्रयाणस्य, कांतस्य-भर्तुः, पदवी-मार्गः,
तावदलोकि-ददृशे, यावद् रजो-रेणुः, अंतरा-मध्ये, नाभूदिति चतुभंगोन्वयः । २७. दुरुत्त० । काचिद् बाला इति ईरतिस्म-एवमचीकथत् । इतीति किं ? हे
प्रिय !, चेद्-यदि, अंतरा-मध्ये, आशातरी-इच्छानौका, न स्यात् तदा निमज्जने-ब्रुडने, को विघ्नो भवति । हे सखि ! मया भुजाभ्यां-बाहुभ्यां, दयिते-भर्तरि, प्रयाते-प्रयाणं कृतवति सति, अयं विरहांबुराशि:वियोगाब्धिः, दुरुत्तर:-दुरवगाहो वर्तते ।
२८. जहीहि । आल्या-सख्या, काचिद् वधूरिति संबोध्य-संभाष्य, गृहं नीता
प्रापिता । इतीति किं ? हे सखि ! त्वं मौनं जहीहि-त्यज। त्वमात्मकृत्यंस्वकार्य, रचय-कुरु । हे मृगाक्षि !, त्वं सखीजने दृशं देहि, त्वं घस्रकुमुद्दशांवासरकरवावस्थां, दधासि-धारयसि । इति पंचभंगोन्वयः ।
२६. स्निग्धा० । अत्र-लोके, स्निग्धाभिः-स्नेहवतीभिः, सुलोचनाभिः-स्त्रीभिः एव
जीवितनाथपृष्ठे-भर्तुः परोक्षे, संतप्यते-संक्लिश्यते, तिला: स्नेहभाजःतैलाढ्याः, किं न विमाः-न पीड्याः किंतु पीड्या एव । तेषां तिलानां खलः किंचनापि-किमपि, निःस्नेहत्वात् न मद्यः । इति त्रिभंगोन्वयः ।