Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 511
________________ भरतबाहुबलिमहाकाव्यम् निमील्य-आच्छाद्य। किं विशिष्टा काचन ? पराङ्मुखी-परावत्तितानना । किं कुर्वती ? निजांगुलीकुंचिकया-स्वांगुल्यालेखकुचिकया, कांतरूपं-प्रियतमाकारं, आलिखती-चित्रयंती। ३२. काञ्च्याभि० । काचिद् अभिसारिका निशीथे-अर्द्धरात्र, कान्तं-भर्तारं, अभिससार-अभ्यागतवती। किं कृत्वा ? कांच्या-कटिमेखलया, अभिराममनोज्ञं, जघनं विधाय-कृत्वा, पुनः नूपुररम्यनादौ पादौ-चरणौ विधाय । चपुनः, सकंकपत्र-सायकसहितं, स्मरं-कामं, सहायं-सखायं, विधाय। . ३३. निःश्वास० । काचिद् बाला हृदीशितुः-नायकस्य, दृशोः-नयनयोः, उत्सवं आततान-करोतिस्म । किं विशिष्टा काचिन् ? निःश्वासेन हायं यदंशुकं-वसनं, तेन वीक्ष्यमाणं-दृश्यमाणं, वपुः-शरीरं यस्याः सा। पुनः किं विशिष्टा ? समग्रांगपिनद्धभूषा-सर्वावयवपरिहिताभरणा । पुनः किं विशिष्टा ? वासगृहं- ' शयननिलयं, समेता-समागता। ३४. वितन्वती० । सख्या काचिद् वधूरेवमलज्जि-हपिता, एवमिति किं ? हे सखि ! चेद्-यदि, ते-तव, सखा प्रीतिपराङ्मुखो न स्यात् किं तहि-तदा, अनेन भूषाविधिना किं ? किं कुर्वती ? अपूर्वभूषाविधि-निरुपमभूषणरचनां वितन्वतीविदधती। किं कृत्वा ? आत्मदर्श-दर्पणे, स्फुट-स्पष्टं, विलोक्य-दर्श दर्श, इति त्रिभंगोन्वयः। ३५. प्रियालि !० । नायिका सखीमित्याह । हे प्रियालि ! प्रियंसखि ! भामिनीनां स्त्रीणां, यादृक् प्रणयः-स्नेहो भ्राजति न तादृक् भूषाविधिः-भूषणरचना, भ्राजति-शोभते । यः प्रेयान् भूषाविधौ रूपविधौ विचार करोति सोऽत्र लोके प्रिय एव न स्यात्, इति चतुर्भगोन्वयः । . ३६. प्रिये ! त्व०। कश्चित् कामी, इत्वरी-असती, इति-अमुना प्रकारेण, प्राममुदत्-प्रमोदयांचकार । हे प्रिये ! मयाद्य त्वदीया पदवी-त्वन्मार्गः, विशेषात् दृष्टा-लुलोके । कथं न त्वमिता-समागता। ते-तव, सख्यंसौहार्द, अलंघमाना-अव्यतिक्रामती, निद्रापि न इता । इति चतुर्भगोन्वयः। . ३७. इति प्रि० । काचित् कान्ता इतीरयन्ती-एवं वदंती, सागसं-सापराधं, प्रियं प्रणयिनं, जहास-हसतिस्म। इतीति किं ! हे प्रिय ! त्वया हारमपास्यत्यक्त्वा, दयिता-वल्लभा, कथं न श्लिष्टा-आलिंगिता, यद्-यस्मात् कारणात् अरं-अत्यर्थं, हा इति खेदे, ते-तव, हृदयं-वक्षः, मुक्तांकितं-मुक्ताफलचिन्हितमस्तीति । इति त्रिभंगोन्वयः ।

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550