________________
भरतबाहुबलिमहाकाव्यम् निमील्य-आच्छाद्य। किं विशिष्टा काचन ? पराङ्मुखी-परावत्तितानना । किं कुर्वती ? निजांगुलीकुंचिकया-स्वांगुल्यालेखकुचिकया, कांतरूपं-प्रियतमाकारं,
आलिखती-चित्रयंती। ३२. काञ्च्याभि० । काचिद् अभिसारिका निशीथे-अर्द्धरात्र, कान्तं-भर्तारं,
अभिससार-अभ्यागतवती। किं कृत्वा ? कांच्या-कटिमेखलया, अभिराममनोज्ञं, जघनं विधाय-कृत्वा, पुनः नूपुररम्यनादौ पादौ-चरणौ विधाय । चपुनः, सकंकपत्र-सायकसहितं, स्मरं-कामं, सहायं-सखायं, विधाय। .
३३. निःश्वास० । काचिद् बाला हृदीशितुः-नायकस्य, दृशोः-नयनयोः, उत्सवं
आततान-करोतिस्म । किं विशिष्टा काचिन् ? निःश्वासेन हायं यदंशुकं-वसनं, तेन वीक्ष्यमाणं-दृश्यमाणं, वपुः-शरीरं यस्याः सा। पुनः किं विशिष्टा ? समग्रांगपिनद्धभूषा-सर्वावयवपरिहिताभरणा । पुनः किं विशिष्टा ? वासगृहं- '
शयननिलयं, समेता-समागता। ३४. वितन्वती० । सख्या काचिद् वधूरेवमलज्जि-हपिता, एवमिति किं ? हे सखि !
चेद्-यदि, ते-तव, सखा प्रीतिपराङ्मुखो न स्यात् किं तहि-तदा, अनेन भूषाविधिना किं ? किं कुर्वती ? अपूर्वभूषाविधि-निरुपमभूषणरचनां वितन्वतीविदधती। किं कृत्वा ? आत्मदर्श-दर्पणे, स्फुट-स्पष्टं, विलोक्य-दर्श दर्श, इति त्रिभंगोन्वयः।
३५. प्रियालि !० । नायिका सखीमित्याह । हे प्रियालि ! प्रियंसखि ! भामिनीनां
स्त्रीणां, यादृक् प्रणयः-स्नेहो भ्राजति न तादृक् भूषाविधिः-भूषणरचना, भ्राजति-शोभते । यः प्रेयान् भूषाविधौ रूपविधौ विचार करोति सोऽत्र लोके प्रिय एव न स्यात्, इति चतुर्भगोन्वयः । .
३६. प्रिये ! त्व०। कश्चित् कामी, इत्वरी-असती, इति-अमुना प्रकारेण,
प्राममुदत्-प्रमोदयांचकार । हे प्रिये ! मयाद्य त्वदीया पदवी-त्वन्मार्गः, विशेषात् दृष्टा-लुलोके । कथं न त्वमिता-समागता। ते-तव, सख्यंसौहार्द, अलंघमाना-अव्यतिक्रामती, निद्रापि न इता । इति चतुर्भगोन्वयः। .
३७. इति प्रि० । काचित् कान्ता इतीरयन्ती-एवं वदंती, सागसं-सापराधं, प्रियं
प्रणयिनं, जहास-हसतिस्म। इतीति किं ! हे प्रिय ! त्वया हारमपास्यत्यक्त्वा, दयिता-वल्लभा, कथं न श्लिष्टा-आलिंगिता, यद्-यस्मात् कारणात् अरं-अत्यर्थं, हा इति खेदे, ते-तव, हृदयं-वक्षः, मुक्तांकितं-मुक्ताफलचिन्हितमस्तीति । इति त्रिभंगोन्वयः ।