________________
४७६
पञ्जिका (सर्ग ८ )
३८. त्वयाथ० । पुनरपि नायिका नायक किमाह । हे प्रिय ! त्वया अथवा तत्स्मृत-तस्या वल्लभायाः संस्मरणाय, तन्मुक्तादिचिन्हं, न लुप्तं - नापास्तं । मया स्वदृशा-आत्मदृष्ट्या, तवैतत् आगः - भवतोयमपराधः, दृष्टंददर्श । हि यतः, यूनः - तरुणस्य, रतांकितानि - सुरतचिन्हितानि, प्रीणंतिप्रीतिमापादयंति । कस्येव ? भटस्येव । यथा भटस्य - योधस्य, गजाभिघाताः प्रीतीति चतुर्भगोन्वयः ।
३९. श्लेषात्० । नेत्रा - नायकेन, इति निगद्य - उक्त्वा, कापि प्रामोदि - प्रसादिता । इतीति किं ? हे वामनेत्र ! अहनि - दिवसे तवैव श्लेषात् ममेदृशं वक्षोहृदयं जातं । त्वत्तः परा - अन्या, मम का वल्लभास्ति ।
४०.
to य० । काचिन् नायिका कान्तं इति उवाश - वशीचकार, इतीति किं ? तस्मिन् भर्त्तरि मान:- अहंकारः, कथं ? तस्मिन् कस्मिन् ? यदीय नामापि समग्रं अंगं ‘पुलवांकुराढ्यं करोति । यदागमो - यस्यागमनं, स्विन्नं - स्वेदवदंगं करोतीति चतुर्भगोन्वयः ।
४१. प्रसून० । नायिकायाः सखीप्रतिवचनं । हे आलि ! - सखि !, मे-मम, प्रियं विना प्रसूनशय्या - पुष्पशयनीयं, नवकंटकाले ररुं तुदा - मर्मप्रहारिणी, भवेत् - स्यात् । अयं विनोदः रोदनसन्निकाशः - विलापसदृशो भवेत्, वासगृहं भयदं - भयदायि भवेत् ।
1
४२. सख्याः पुरः० । केनचन विलासिना, प्रियायां - वल्लभायां मन्तुमत्ता, न्यवारि - न्यषेधि । किं कुर्वन्त्यां ? इति - पूर्वोक्तं स्वैरं यथेष्टं उदीरयन्त्यां - कथयन्त्यां उदीरतायां वा पाठः । स्वचेतसः - निजचित्तात् । केव ? दुवल्लीव - तरुलतेव । कुतः ? आकाशात् । व्योमाश्रित्येत्यर्थः - इति युग्मार्थः ।
४४.
अपराधसत्ता
सख्याः पुरः
कस्मात् ?
व्योम्न:
४३. विश्वाधि० । अथ - अनन्तरं स विश्वाधिराजः - भरतः कदलीविलासगेहं विवेश - प्रविशतिस्म । किं विशिष्टं कदलीविलासगेहं ? विकीर्णपुष्पंप्रस्तारितकुसुमं पुनः किं० ? लोकत्रयीस्त्र णविशेषितश्रि-त्रलोक्यस्त्रीसमूह विशिष्टलक्ष्मि, ईदृशं मृगेक्षणारत्नं - स्त्रीरत्नं, तेन विभूषितं - शोभितं ।
रत्नप्र० । पुनः किं वि० ? रत्नप्रदीपप्रहतान्धकारं । पुनः किं वि० ? चन्द्रोदयेन उद्योतितः - उद्दीपितो मध्यदेशो यस्य दंदह्यमानागुरुभिः धूमाणि धूमधामानि - घूमतेजांसि किं० ? पुण्यवतां योग्यं इति युग्मार्थः ।
तत् । पुनः किं ? तैरंकितं चिन्हितं, पुनः