Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 509
________________ ४७६ भरतबाहुबलिमहाकाव्यम् १८. त्वं पश्चि० । आशा-दिशा, द्विजानां-पक्षिणां, रवै:-शब्दः, इत्याशिषं__ मंगलवचनं, अर्पयन्त्यः-विश्राणयन्त्यः, इवाभवन् । इतीति किं ? हे त्रयीतनो! भानो !, हंत इति खेदे, अधुना-अस्मिन्नवसरे, त्वं पश्चिमाशां-वारुणीं, गतोऽसि-प्राप्तोऽसि । केन ? दैवयोगेन-भाग्यबलेन, च-पुनः, हे सूर्य ! त्वं अभ्युदेता-उदयं प्राप्स्यसि। १६. आराम० । आरामलक्ष्म्या-वनश्रिया, विनिर्मिताभिः-रचिताभिः, औषधिभिः दिदीपे। किं विशिष्टाभिः औषधिभिः ? अस्नेहदीपावलिभिः-अतैलकृतप्रदीपराजिभिः । कथं ? निशान्तर-नक्तमध्ये । कस्मै ? प्रादुर्भवद्ध्वान्तभरापंनुन्यै-' प्रकटीभवत्तमोतिशयोच्छेदाय । क्व ? पदे पदे-स्थाने स्थाने। २०. प्रकल्पि० । क्षितीशः-भरतः, अवरोधेन-शुद्धान्तेन, सह-सम, ततः-तस्माद् वनात्, पटागारवरं जगाम-गच्छतिस्म । किं विशिष्ट: क्षितीशः ? रत्नप्रदीपद्युतिदृश्यमानमार्गः-मणिमयदीपदीधितिविलोक्यमानपथः, पुनः किं विशिष्ट: क्षितीशः ? प्रकल्पिताकल्पविधिः-कृतवेषविधानः, क्व ? प्रदोषे-शायं । २१. शुद्धान्तः । शुद्धान्तवेषस्य वासरे-दिवसे, या शोभा बभूव-आसीत्, सा शोभा रजन्याः समये-रात्रे रवसरेऽधिकत्वमूहे-प्राप्तवती । कस्मात् ?, मणिप्रदीपाभ्यधिकप्रकाशात्-रत्नदीपाधिकोद्योतात् । किं विशिष्टात् ? स्मरसाहचर्यात्कामसखत्वात्। २२. विलासि० । विलासिनीभिः-वधूभिः, युवानः-तरुणाः, ययिरे-प्राप्ताः, यथाऽ लिनीभिः-भ्रमरीभिः, कुमुदप्रदेशाः प्राप्यन्ते । पुनः सौधे-गृहे, निकेतरत्नप्रचयस्य-दीपसमूहस्य, रुचां कलापैः-किरणव्रजः, उद्दिदीपे-उद्दीप्तं, इति त्रिभंगोन्वयः । २३. काचिद् । काचित् कान्ता स्वकान्तमार्ग-स्वभर्तृ पंथानं, मुहुः-असकृत्, ईक्षते स्म-पश्यतिस्म । किं विशिष्टा काचित् ? पुष्पेषुबाणाग्रहतांगयष्टि:-कामशरानघातितदेहयष्टिः, किं कृत्वा ? प्रसूनः-पुष्पैः, स्वाभ्यां कराभ्यां शय्यां विरचय्यरचयित्वा, किं विशिष्टः प्रसूनः ? विवृन्तैः-त्याजितपुष्पबंधनैः, पुनः किं विशिष्ट: प्रसूनैः ? विविधः-विचित्र:। २४. आस्तीर्य० । काचित् कांता कांते-भतरि, अनुपेते-नागते सति, स्वसखीमेव मुवाच । किं कृत्वा ? शय्यां-तल्पं, आस्तीर्य-प्रस्तार्य, दीपं विरचय्य-कृत्वा । एवमिति किं ? हे सखि ! प्रिये-प्रेयसि, स्नेहभरात्-प्रणयातिशयात्, ससंभ्रमंसत्वरं, उपेते-अभ्यागते सति मनो हृष्यति-हर्षमाप्नोति । इति द्विभंगोन्वयः ।

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550