________________
४७६
भरतबाहुबलिमहाकाव्यम्
१८. त्वं पश्चि० । आशा-दिशा, द्विजानां-पक्षिणां, रवै:-शब्दः, इत्याशिषं__ मंगलवचनं, अर्पयन्त्यः-विश्राणयन्त्यः, इवाभवन् । इतीति किं ? हे त्रयीतनो!
भानो !, हंत इति खेदे, अधुना-अस्मिन्नवसरे, त्वं पश्चिमाशां-वारुणीं, गतोऽसि-प्राप्तोऽसि । केन ? दैवयोगेन-भाग्यबलेन, च-पुनः, हे सूर्य ! त्वं अभ्युदेता-उदयं प्राप्स्यसि।
१६. आराम० । आरामलक्ष्म्या-वनश्रिया, विनिर्मिताभिः-रचिताभिः, औषधिभिः
दिदीपे। किं विशिष्टाभिः औषधिभिः ? अस्नेहदीपावलिभिः-अतैलकृतप्रदीपराजिभिः । कथं ? निशान्तर-नक्तमध्ये । कस्मै ? प्रादुर्भवद्ध्वान्तभरापंनुन्यै-'
प्रकटीभवत्तमोतिशयोच्छेदाय । क्व ? पदे पदे-स्थाने स्थाने। २०. प्रकल्पि० । क्षितीशः-भरतः, अवरोधेन-शुद्धान्तेन, सह-सम, ततः-तस्माद्
वनात्, पटागारवरं जगाम-गच्छतिस्म । किं विशिष्ट: क्षितीशः ? रत्नप्रदीपद्युतिदृश्यमानमार्गः-मणिमयदीपदीधितिविलोक्यमानपथः, पुनः किं विशिष्ट:
क्षितीशः ? प्रकल्पिताकल्पविधिः-कृतवेषविधानः, क्व ? प्रदोषे-शायं । २१. शुद्धान्तः । शुद्धान्तवेषस्य वासरे-दिवसे, या शोभा बभूव-आसीत्, सा शोभा
रजन्याः समये-रात्रे रवसरेऽधिकत्वमूहे-प्राप्तवती । कस्मात् ?, मणिप्रदीपाभ्यधिकप्रकाशात्-रत्नदीपाधिकोद्योतात् । किं विशिष्टात् ? स्मरसाहचर्यात्कामसखत्वात्।
२२. विलासि० । विलासिनीभिः-वधूभिः, युवानः-तरुणाः, ययिरे-प्राप्ताः, यथाऽ
लिनीभिः-भ्रमरीभिः, कुमुदप्रदेशाः प्राप्यन्ते । पुनः सौधे-गृहे, निकेतरत्नप्रचयस्य-दीपसमूहस्य, रुचां कलापैः-किरणव्रजः, उद्दिदीपे-उद्दीप्तं, इति त्रिभंगोन्वयः ।
२३. काचिद् । काचित् कान्ता स्वकान्तमार्ग-स्वभर्तृ पंथानं, मुहुः-असकृत्, ईक्षते
स्म-पश्यतिस्म । किं विशिष्टा काचित् ? पुष्पेषुबाणाग्रहतांगयष्टि:-कामशरानघातितदेहयष्टिः, किं कृत्वा ? प्रसूनः-पुष्पैः, स्वाभ्यां कराभ्यां शय्यां विरचय्यरचयित्वा, किं विशिष्टः प्रसूनः ? विवृन्तैः-त्याजितपुष्पबंधनैः, पुनः किं विशिष्ट: प्रसूनैः ? विविधः-विचित्र:।
२४. आस्तीर्य० । काचित् कांता कांते-भतरि, अनुपेते-नागते सति, स्वसखीमेव
मुवाच । किं कृत्वा ? शय्यां-तल्पं, आस्तीर्य-प्रस्तार्य, दीपं विरचय्य-कृत्वा । एवमिति किं ? हे सखि ! प्रिये-प्रेयसि, स्नेहभरात्-प्रणयातिशयात्, ससंभ्रमंसत्वरं, उपेते-अभ्यागते सति मनो हृष्यति-हर्षमाप्नोति । इति द्विभंगोन्वयः ।