________________
४७५
कैरिव ? चौरैः - तस्करैरिव यथा दिगन्ता व्याप्यंत । कस्मिन् सति ? किलेति निश्चयेन, चक्रबन्धो-सूर्ये, अस्तं प्रयाते सति - नाशं गते सति राजनि - चन्द्रे, अनुद्यते-अनुद्गते सति, किं विशिष्टे राजनि ? तेजसा - धाम्ना, आढ्ये - परिपूर्ण ।
पञ्जिका (सर्ग८)
१२. आप्लाव ० । त्रियामाक्षणः - शर्वरीसमयः, तमोभिः - ध्वान्तैः,
जगद् - विश्वं, आप्लावयामास - निमज्जयांचकार । किं विशिष्टः तमोभिः ? विकाशितालीवनराजिनीलैः - विकस्वरतालवन णिश्यामलैः । कः कैरिव ? संवर्त्तपाथोधिःकल्पान्तसमुद्रः, पयोभिः- जलैर्यथा जगद् आप्लावयति । किं विशिष्टैः पयोभिः ? परितः सर्वतः, प्रवृद्धैः – वृद्धि प्राप्तैः ।
१३. हंसः प० । हंसः - सूर्यः, चर्माद्रिचूलां - पश्चिमाचलचूलां प्रयातः प्रययौ । — तमिस्रकाकः - तमोवायसः प्रकटीबभूव रथांगाह्वसतां - कोकमहात्मनां यद् वियोग:- विरहः, अभूत् तत् स्थाने - युक्तं । उत्तमानां पापे अधिके सति किं सुखं स्यात् ? इति चतुर्भंगोन्वयः ।
१४. समत्व० । तमोभरे - तिमिरातिशये, प्रकामं - अत्यर्थं व्याप्नुवति - व्याप्ति प्राप्ते संति, समत्ववैषम्यसतत्त्ववेदः– समताविषमतावक्रताज्ञानं, नासीत् । कस्मिन्निव ? दौर्जन्यभाक् स्वान्त इव - पैशून्यवन्मनसीव । किं विशिष्टे तमोभरें ? दृष्टे:- अक्ष्णोः एकः - अद्वितीयः, निबद्ध: - नियंत्रितः, चारः-संचारः येन, असौं, तस्मिन् ।, दौंजन्यभाक् स्वान्तपक्षे - दृष्टिः - ज्ञानं । पुनः किं विशिष्टे तमोभरे ? असिताभे—श्यामलच्छाये । दौर्जन्यभाक्स्वान्तपक्षे - क्षिप्तशोभे ।
१५. . विनिस्स० । तदा तस्मिन् सन्ध्यासमये, कैरविर्णीभिः कुमुदिनीभिः, वियोगवह्नः विरहानलस्य, धूमपंक्तिरिव औज्झि - तत्यजे । कस्मात् ? विभावरीकांतक रोपलम्भात्- चन्द्रकरावाप्तेः, पुनः कस्मात् ? विनिस्सरत्चंचलचंचरीकव्याजात्निर्गच्छत्वटुलभ्रमरमिषात् ।
-
१६. कलिन्द० । तदानीं - तस्मिन्नवसरे, तमसा - ध्वान्तेन कृत्वा, भूमितलमेवमासीत्इत्थंभू । उत्प्रेक्षते - कलिन्दकन्यापयसा-यमुनाजलेन, सिक्तमिव । वा- अथवा, किमिति वितर्के, कस्तूरिकावारिभरेण सिक्तं । वा अथवा, किं अञ्जनाम्भोभिःकिं. कज्जलपानीयै: असेचि - अभ्यषिच्यत इति चतुर्भं गोन्वयः ।
१७. अनेक० । इदानीं - अस्मिन्नवसरे, अनेकवर्णाढ्यमपि एकवर्णं जगदासीत् । कस्मिन् सति ? तमः क्षितीशे - ध्वान्तभूपतौ प्रभुतां प्रपन्ने सति - प्रभुत्वमाप्ते सति । विश्वे - जगति, प्रभूत्वं - ईश्वरत्वं एतादृशं - एवंविधरच रूपमेवास्ति । यादृशो राजा तादृश्यैव रीतिर्भवतीति प्रवृत्तिः ।