________________
४७४
भरतबाहुबलिमहाकाव्यम् वेणीदंडशिथिलीभूतकेशलतानां, नत्यक्रियाकल्पने-नाट्यकर्मकरणे, सूत्रधार:रंगाचार्यः । किं विशिष्टं तं ? सावरोध-सांतःपुरं, पुनः किं विशिष्टं ? तटसंनिविष्ट-तीराश्रितं ।
५. न्यमील्य०। अंभोरुहिणीगणेन-पद्मिनीसमूहेन, न्यमील्यत-संचुकुचे।
अत्रभावोक्तिः । तीक्ष्णांशुना-रविणाऽपि, अस्तगिरि:-पश्चिमाचलः, निलिल्येशिश्लिषे । च-पुनः, नृपेण-भरतेन, तटाकतीरं अत्याजि-त्यक्तं । किं कृत्वा ? -
द्वन्द्वचरस्य-चक्रवाकस्य, दीनं मुखं दृष्ट्वा-विलोक्य, इति त्रिभंगोन्वयः। .. ६. निमीलि०। सरसी-तटाकः, काम-अत्यर्थं, प्रदोषे-यामिनीमुखे, सुष्वाप
सुप्ता । किं विशिष्टा सरसी ? निमीलिताम्भोरुहपत्रनेत्रा-संकुचितकमलदल- . . नयना, पुनः किं विशिष्टा ? तमःपटीसंवलितांबुदेहा-ध्वान्तनीलांबरपिहितांबु- . शरीरा। उत्प्रेक्षते-चक्रनाम्नो:-कोकयोः, वियोगदुःखादिव-विरहव्यसनादिव। सुष्वाप-इत्यत्र शयनार्थसामर्थ्यात् कर्मराहित्यं वेदितव्यम्।
७. अस्तं । दिनेन-वासरेण, सन्ध्याचिताहव्यवहे-संध्याचितानले, निजं वपुः- . • स्वं शरीरं, भस्ममयं-राक्षारूपं, वितेने-विदधे । कस्मिन् सति ? भानुमतिसूर्ये, अस्तंगते सति । किं विशिष्टे भानुमति ? स्वे-निजे, प्रभौ-स्वामिनि, ध्वान्तभरैरिव धूमैः प्रसस्र-प्रसृतं ।
८. आकाश० । वासरांते-दिनावासने, रजनीश्वरस्य-चन्द्रस्य, आकाशसौधे
नभोहर्ये, प्रदीपा इव तारा: प्रादुर्बभूवुः-प्रकटीभवंतिस्म । कि विशिष्ट आकाशसौधे ? महेन्द्रनीलाश्मनिबद्धपीठे। कथं ? दिगन्तान् परितः-सर्वतः दिशोदिशं इत्यर्थः ।
६. वियोगि० । तदानीं-तस्मिन् सन्ध्यासमये, वियोगिनीनां विरहिणीनां,
विरहानलस्य खद्योतसंघातमिषात्-ज्योतिरंगणसमूहव्याजात्, स्फुटाः स्फुलिंगा इव पुस्फुरु:-दिदीपिरे। किं विशिष्टस्य विरहानलस्य ? निश्वासा . एव धूमावलिः तया धूम्र-मलिनं, धाम-तेजो यस्य, असौ, तस्य । नभस्थ० । नभस्थलं वैडूर्यकस्थालमिव व्यभासीत्-दिदीपे। किं विशिष्टं नभस्थलं ? तारकमौक्तिकाढ्यं-तारामुक्ताफलपूर्णं, पुनः किं विशिष्टं ? विभावरीभीरुशिरोविराजि-रजनीसीमंतिनीमस्तकशोभि । कुत: ? राजागतेचन्द्रागमनात् । कस्मै ? मंगलसंप्रवृत्त्यै-कल्याणसंप्रवर्तनाय ।
११. अस्तं प्र०। तमोभरै:-तिमिरातिशयैः, दिगंता:-आशाप्रान्ताः, · व्यानशिरे
व्याप्यंत । किं विशिष्टैः तमोभरैः ? व्याहतदृष्टिचारैः-विध्वस्तलोचनसंचारैः ।