SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ पञ्जिका (सर्ग) ४७३ आगताः। किं विशिष्टा हरिणीनेत्राः ? नीराभिषिक्तकचोच्चयाःपानीयाद्रीभूतकेशपाशाः, तु-पुनः, अमू:-नार्यः, प्रणयिहृदयं-वल्लभमानसं, नातिकामंति-नोल्लंघयंति । किं विशिष्टा अमूः ? अनन्यहृदः-तत्परमानसाः, हि-यतः, प्राच्यात् पुण्योदयात्-प्राक्तनाद् धर्मोदयात्, नृणां-मनुष्याणां, सुखं प्रसरतितरां-अतिशयेन प्रथयति । इति चतुर्भगोन्वयः । इत्थं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मे, ऽयोध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका। नैपुण्यव्यवसायिपुण्यकुशलस्यास्यारविन्दोद्गता, .. या तस्यामितिकाननैकललनः सर्गोऽभवत् सप्तमः ॥ . इति श्रीमरतंबाहुबलिमहाकाव्ये पंजिकायां वनविहारक्रीडावर्णनो नाम सप्तमः सर्गः । अष्टमः सर्गः-. १. अयाव० । अय-अनन्तरं, सरः-तटाकः, क्षितिराज-भरतं, आरात्-दूरात्, तटोत्सर्पितरंगहस्तै:-तीरविवर्द्धमानकल्लोलपाणिभिः, नमस्यतीव-नमस्करोतीव, किं कुर्वतं ? अवरोधेन समं-अन्तःपुरेण सार्द्ध, प्रयान्तं-व्रजन्तं । केपि सतांमहतां, स्थिति-मर्यादां, अवधीरयन्ति-अवगणयंति ? न लुपंतीत्यर्थः । २. स्नांना० । तीरगतांगनाभिः-तटप्राप्तवधूभिः, पद्माकर:-सरोवरः, मुक्ताभिः मुक्ताफलः, अवकीर्ण:-अवकीर्यतेस्म । केन ? स्नानेन आर्द्रा, अत एव मुक्ताःअस्तबन्धनाः, अलका:-केशाः, तेषां बिन्दवः-शीकराः, तेषां पंक्तिः-श्रोणिः, तस्याः व्याजः-छलं, तेन। किमिति वितर्के, रसावहानां-सरसानां, न हि संभवेत् ? अपितु सर्व संभवेत् । .. ३. सितच्छ० । सितच्छदानां-राजहंसानां, जलस्थलाम्भोरुहिणीविबोधः-कमलिनी प्रथमजातीयनायिकाज्ञानमासीत् । किं कुर्वतां ? अनन्ते-व्योम्नि, चरतां-भ्रमतां, काभिः ? जलस्थपालिस्थितपद्मिनीभिः-नीरवत्तिसरस्तीरवत्तिनलिनीभिः । किं विशिष्टाभिः ? लोलालकालिप्रसराभिः-चलच्चिकुरचंचरीकप्रपंचाभिः । धम्मिल्ल० । सरसीसमीर:-तटाकवायुः, तं-भरतं, मुहुः-असकृत्, सिषेवेसेवितवान् । किं विशिष्ट: सरसीसमीरः ? धम्मिल्लमुक्तालकवल्लरीणां
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy