________________
४७२
भरतबाहुबलिमहाकाव्यम् व्यरचि-चक्र । च-पुनः, स्तनचन्दनः-कुचश्रीखंडः, शुचितरं-अतिविशदं. व्यरचि । इह-अस्मिन् सरोवरे, खरांशुतनयासुरकुल्ययोः-यमुनागंगयोः, किं संगमोऽभूत् । किं विशिष्टे केलिसरोवरे ? एवं-अमुना प्रकारेण, वितर्क:
विचारः, यत्र, असो, तस्मिन् । ७८. धम्मिल्ल० । अमूभिः वधूभिः, क्रीडासरो विविधरूपं विचित्रसौन्दर्य, अतानि
अक्रियत । कैः ? जलांतपतितैः धम्मिल्लभारकुसुमैः, उत्प्रेक्षते-स्थिततुच्छतारं प्राभातिकांबरमिव-प्रत्यूषसंबंधिगगनमिव । पुनः किं विशिष्टं ?
स्तनशैलशृंगैः-पयोधरपर्वतशिखरैः, चूर्णीकृतोमिवलयं । . . ७६. आकाश । अयं-भरतः, एवं प्रोचान-इत्थं ब्रुवाणः, उत्पुलक:
उल्लसदरोमांचो बभूव । एवमिति किं ? प्रफुल्लनयनांगसमागमस्यरामांगसंयोगस्य, हा ! शैत्यमभ्यधिकमस्ति । वा-अथवा, किमिति वितर्के, अंबुचयस्य-पानीयनिचयस्य, हा ! शैत्यमभ्यधिकं । किं विशिष्टस्यांबुच्यस्य ?
आकाशसंचरसितच्छदवीजितस्य-नभश्चरराजहंसप्रकंपितस्य। . ८०. अद्भिः । किलेति निश्चयेन, अद्भिः-पानीयः, स्त्रीणां दग्द्वन्द्वात्
नयनयुगलात्, कज्जलकालिमा-अंजनश्यामता, व्यपासि-दूरीचक्र । परं अधरौष्ठात् पाटलता-रक्तता, न किंचिदपि 'व्यपासि। हि-यतः, नैसर्गिकी-स्वाभाविकी, कमला-श्रीः, क्वचिदपि अनेत्री-अगमनशीला। च-पुनः, अन्यनिजावबोधः-आत्मीयानात्मीयज्ञानमिति व्यरचि। इति
चतुर्भगोन्वयः । २१. यावतः । कोके प्रियां-दयितामिति वदति-कथयति सति, भूमिभृता
भरतेन, न्यत्ति-निर्वृत्तं । कथंभूते कोके ? दीनवक्त्रे, इतीति किं ? हे कुरंगनयने !, सहस्रकिरणः-सूर्यः, यो गगनावगाही-नभोवर्ती विद्यते । नो:आवयोः, तावन्नहि वियोगः-विरहः स्यात् । अयं सूर्यः चिराद्-वेगाद, अस्तं गंता । इति चतुर्भगोन्वयः ।
८२. धम्मिल्ल । तरुण्यः-युवतयः, क्रीडातटाकं अवगाह्य-विलोड्य, तट-तीरं,
प्रयाताः-प्रस्थितवत्यः । किं कारयन्त्यः ? धम्मिल्लभारशिथिलालकबिन्दुसेकै:केशपाशश्लथचिकुरशीकरसेचन, शंकरदग्धकाम-शंभुज्वालितस्मरं, उज्जीवयंत्य इव-आश्वासयन्त्यः, किं विशिष्टाः ? सूक्ष्मांशुकेन प्रकटिता:
स्पष्टीभूताः, अंगरुचः-शरीरकान्तयः यासां, ताः। ८३. नरप० । नरपतिः-भरतः, इति-अमुना प्रकारेण स्नात्वा क्रीडासरस्तटं
आगतः-आयातवान् । तदनु-तदनन्तरं, हरिणीनेत्रा:-स्त्रियः क्रीडासरस्तटं