Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati
View full book text
________________
पञ्जिका (सर्ग७)
४७१ हंसा:-मरालाः, त एव कलनूपुराणि तेषामारवः-शब्दो येषु, ते, तैः । पुनः कि विशिष्ट: ? सरसांतरगतैः-संतो विद्यमाना वा. प्रशस्ता अन्ये रसा शृंगारादय इति सद्सांतरगतैः-प्राप्तैः । कमलिनीपक्षे-नीरमध्यमितैः।
७२. पुण्डरी० । स राजा केलिपल्वलं-क्रीडासरो, व्यलोकत-ददर्श । किं कुर्वाणमिव ?
पंडरीकाणि-सितांभोजानि एव नयनानि-लोचनानि तैः लोकमानं-समीक्षमानमिव पुनः किं कुर्वतं ? चक्रसारसविहंगमस्वनैः-चक्रवाकसारसपक्षिनिनादः, आह्वयन्तं-आकारयंतमिव । किं विशिष्ट: पुंडरीकनयनः ? विकासिभि:विकस्वरैः ।
७२. योषितां०। योषितां प्रतिकृतिः-स्त्रीणां प्रतिबिम्ब, जलाशये-जलस्थाने,
पश्यतां-द्रष्ट्रीणामिति, वितर्क-विचारं, आदधे-चकार । इतीति किं ? सिंधुसोदरे-समुद्रबांधवे तटाके, किमिति वितर्के, श्रिया-लक्ष्म्या, स्वं स्वरूपं बहुधा व्यर्भज्यतेव-विभागीकृतमिव इह-अस्मिन्, अयं हि तटाको लक्ष्म्या
पितृव्य सिन्धोः सोदरत्वात् । . ७४. एतद० । तदा-तस्मिन् सावरोधभरतागमसमये, सितच्छदै:-राजहंसः, इति
हेतोः नलिनीगण:-कमलिनीसमूहः, हीयतेस्म-तत्यजे। इतीति किं ? इमा नलिन्य एतासां पद्मिनीनां अग्रतः पुरस्तात्, किं स्युः । किं विशिष्टा नलिन्यः ? जडात्मजा-मूर्खदुहितरः ।, पुनः किं विशिष्टा: ? ह्रिया-लज्जया, पंकिला:कर्दमवत्यः वा पापवत्यः, किं विशिष्ट: सितच्छदैः ? शुद्धपक्षयुगल:-पवित्रद्विपक्षैः, मनुष्यागमे हि पक्षिभिः उड्डीयते। .
• ७५. सावरो० । सरोवर:-तटाकः, सावरोधनृपतेः समागमात्-सांत:पुरभरतसंगमात्,
समतुषत्,-संतुष्टिमभजत् । उत्प्रेक्षते-तरंगपाणिभिः-कल्लोलहस्तैः, उच्छलनिव-उल्ललन्निव, विकासिपद्मिनीकाननैः-विकस्वरनलिनीवनैः, संहसन्निवकृतहास इव ।
७६. क्रीडात० । अवनीपतिः-भरतः, वधूभिः सार्द्ध क्रीडातटाकमाजगाहे
विलोडयामास । काभिः क इव ? द्विपीभिः-हस्तिनीभिः, इभराजःगजेन्द्र इव । किं विशिष्टोऽवनीपतिः ? हस्तेन-पाणिना, उद्धृतः-उत्पाटितः, अंबुरुहिणीनिचयः-पद्मिनीसमूहः, येन, असौ। हस्तिपक्षे-हस्तः-शुंडा। कि विशिष्टाभिर्वधूभिः ? आवर्तमानशफर्याः समानि लोचनानि यासां ताः,
ताभिः । कथं ? समंतात्-सर्वतः । . ७७. काभिश्च० । काभिश्चन वधूभिः लोचनकज्जलौघः कृत्वा श्यामं जलं
Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550