Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 493
________________ भरतबाहुबलिमहाकाव्यम् ४६० ७५. यस्यात्रा० । हि - निश्चितं, अत्रापि - जगत्यां यस्य - पुरुषस्य, प्राचीनपुण्योदयः-प्राक्तनधर्मोत्पत्तिर्जागर्ति, तदुदोहदेभ्यः - तेषां मनोरथेभ्योऽधिकं यथा स्यात् तथा सुषमा प्रथिमानं - प्रौढिमानं, एति - आगच्छति । किं विशिष्टः प्राचीनपुण्योदयः ? विश्वविस्मयकरः - जगदाश्चर्यविधायी, यतः - यस्माद्धेतोः, सर्वत्र - सकललोके, हंसा: मुक्ताफलानां पंकजिनीविसानां - कमलिनीतन्तूनां अशने - भोजने, परा:तत्पराः, भवंति । काका: कश्मलस्य - मलिनवस्तुनः, निंबभूरुहफलानां आस्वादेभोजने, एकः-अद्वितीयः, बद्धः - नियतः, आदरो यैः, ते, एतादृशाः काका : संति । इत्थं श्रीकविसोमसोमकुशला ल्लब्धप्रसादस्य मे, ऽयोध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका । न पुण्यव्यवसायि पुण्य कुशलस्यास्यारविन्दोद्गता, या तस्यां प्रथमाभिषेणनमुखः सर्गश्च षष्ठोऽभवत् ।। श्रीभरत बाहुबलि महाकाव्ये पंजिकायां प्रथमसेनानिवेशवर्णनो नाम षष्ठः सर्गः । सप्तमः सर्गः - १. चक्रभृ० । अथानन्तरं चक्रभृद्-भरतः, मृगदृशां मनोरथैः - स्त्रीणां कामैः, ईरितः - प्रेरितः सन् कानने - वने, विजहार - क्रीडतिस्म | हि - निश्चितं, केनचित् पुंसा वल्लभाभिलषितं - प्रियाकांक्षितं लुप्यते ? न केनापि इत्यर्थः । किं विशिष्टेन पुंसा ? प्रणयभंगभीरुणा - प्रीतिध्वंसकातरेण । २. पार्श्वपृ० । पुरंधिभिः - स्त्रीभिः, चक्रिणः - भरतस्य, पार्श्वपृष्ठपुरतः चरितुं - गन्तुं, अभ्ययुज्यत—उद्यमः क्रियतेस्म । काभिः कस्येव ? यथा हस्तिनीभिः, सामजन्मनःहस्तिनः, पार्श्वपृष्ठपुरतश्चरितुमभियुज्यते । कस्मिन् ? वने । किं विशिष्टे बने ? अनोक हैः- वृक्षैः, एकं गहनं संकीर्णं, अंतरं - मध्यं यस्य तत्, तस्मिन् । 1 ३. कामिनी० । वि- निश्चितं त्रिदशराट् - शक्रः तत्र पे - लज्जितः । किं कुर्वन् ? त्रिदिवकाननान्तरे-नंदनवनमध्ये संचरन् - भ्रमन्। किं कृत्वा ? कामिनीसहचरस्य चक्रिणः, विभ्रमं - शोभां विलोक्य - दृष्टवा । किं वि चक्रिणः ? वनयुषो - आरामसेविनः, किं विशिष्टः त्रिदशराट् ? सचीसखा इन्द्राणसहितः । ४-५. स्मेरपु० । केतकै० । तदा तस्मिन् व्यराजत - शुशुभे । किं कुर्वत् ? अस्य सितप्रभं - उज्ज्वलं छत्र, केतकेन कामिनी सहचरभरतविहारसमये, वनं भरतस्य मूर्ध्नि - मस्तके, निजं - आत्मीयं, रजसा - केतकसंबंधिरेणुना, आदधदिव

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550