________________
भरतबाहुबलिमहाकाव्यम्
४६०
७५. यस्यात्रा० । हि - निश्चितं, अत्रापि - जगत्यां यस्य - पुरुषस्य, प्राचीनपुण्योदयः-प्राक्तनधर्मोत्पत्तिर्जागर्ति, तदुदोहदेभ्यः - तेषां मनोरथेभ्योऽधिकं यथा स्यात् तथा सुषमा प्रथिमानं - प्रौढिमानं, एति - आगच्छति । किं विशिष्टः प्राचीनपुण्योदयः ? विश्वविस्मयकरः - जगदाश्चर्यविधायी, यतः - यस्माद्धेतोः, सर्वत्र - सकललोके, हंसा: मुक्ताफलानां पंकजिनीविसानां - कमलिनीतन्तूनां अशने - भोजने, परा:तत्पराः, भवंति । काका: कश्मलस्य - मलिनवस्तुनः, निंबभूरुहफलानां आस्वादेभोजने, एकः-अद्वितीयः, बद्धः - नियतः, आदरो यैः, ते, एतादृशाः काका : संति ।
इत्थं श्रीकविसोमसोमकुशला ल्लब्धप्रसादस्य मे, ऽयोध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका । न पुण्यव्यवसायि पुण्य कुशलस्यास्यारविन्दोद्गता, या तस्यां प्रथमाभिषेणनमुखः सर्गश्च षष्ठोऽभवत् ।।
श्रीभरत बाहुबलि महाकाव्ये पंजिकायां प्रथमसेनानिवेशवर्णनो नाम षष्ठः सर्गः ।
सप्तमः सर्गः -
१. चक्रभृ० । अथानन्तरं चक्रभृद्-भरतः, मृगदृशां मनोरथैः - स्त्रीणां कामैः, ईरितः - प्रेरितः सन् कानने - वने, विजहार - क्रीडतिस्म | हि - निश्चितं, केनचित् पुंसा वल्लभाभिलषितं - प्रियाकांक्षितं लुप्यते ? न केनापि इत्यर्थः । किं विशिष्टेन पुंसा ? प्रणयभंगभीरुणा - प्रीतिध्वंसकातरेण ।
२. पार्श्वपृ० । पुरंधिभिः - स्त्रीभिः, चक्रिणः - भरतस्य, पार्श्वपृष्ठपुरतः चरितुं - गन्तुं, अभ्ययुज्यत—उद्यमः क्रियतेस्म । काभिः कस्येव ? यथा हस्तिनीभिः, सामजन्मनःहस्तिनः, पार्श्वपृष्ठपुरतश्चरितुमभियुज्यते । कस्मिन् ? वने । किं विशिष्टे बने ? अनोक हैः- वृक्षैः, एकं गहनं संकीर्णं, अंतरं - मध्यं यस्य तत्, तस्मिन् ।
1
३. कामिनी० । वि- निश्चितं त्रिदशराट् - शक्रः तत्र पे - लज्जितः । किं कुर्वन् ? त्रिदिवकाननान्तरे-नंदनवनमध्ये संचरन् - भ्रमन्। किं कृत्वा ? कामिनीसहचरस्य चक्रिणः, विभ्रमं - शोभां विलोक्य - दृष्टवा । किं वि चक्रिणः ? वनयुषो - आरामसेविनः, किं विशिष्टः त्रिदशराट् ? सचीसखा इन्द्राणसहितः ।
४-५. स्मेरपु० । केतकै० । तदा तस्मिन् व्यराजत - शुशुभे । किं कुर्वत् ? अस्य सितप्रभं - उज्ज्वलं छत्र, केतकेन
कामिनी सहचरभरतविहारसमये, वनं भरतस्य मूर्ध्नि - मस्तके, निजं - आत्मीयं, रजसा - केतकसंबंधिरेणुना, आदधदिव