________________
पञ्जिका (सर्ग६)
४५६ ६८-७०. पंचव० । पद्मिनी० । यत्र पू०। अथ-अनन्तरं, राजमौलिः-नृपकोटीरो
भरतः तद् वनं गन्तुमियेष-वांछतिस्म । तत् किं ? यत्र वनेऽवरोधवधूभिःअन्तःपुरस्त्रीभिः, संन्यवासि-संस्थितं । कस्मै ? विविधोत्सवरत्यनानामहोत्सवक्रीडनाय । किं विशिष्टं वनं ? सर्वतः-समंतात्, वसनवेश्मभिःपटकूटीभिः, राजिता-शोभिता, अंतरे-मध्ये, मनोरमा-मनोज्ञा, लक्ष्मी:-शोभा, यस्य, तत् राजितांतरमनोरमलक्ष्मि । किं विशिष्ट वसनवेश्मभिः ? उच्चैः -उन्नतैः, पुनः किं विशिष्ट: ? पंचवर्णमयकेतुपरीतैः उत्प्रेक्षते-पुष्पपल्लवचितैःकुसुमप्रवालभरितैः वृक्षरिव । पुनः किं विशिष्टः ? हेमकुंभैः कलितं अग्रशिर:शिखरं येषां तानि, तैः । उत्प्रेक्षते-देवधामभि:-प्रासादरिव । किं विशिष्टः ? उन्नतिमभिः । पुनः किं विशिष्टः ? पद्मिनीनां-प्रथमजातीयनायकानां कमलिनीनां च वदनैः-मुखैः, चारुगवाक्षा यत्र, तानि तैः। उत्प्रेक्षतेपल्वलस्ताटकैरिव । किं विशिष्ट: पल्वलैः ? विकस्वरपद्मः-विकचांभोजैः, वसनवेश्मपक्षे-विकस्वरश्रीकः, पुनः किं विशिष्टं वनं ? चित्ररथतः-धनदवनात्,
चारु-मनोज्ञं,-इति विशेषकार्थः । ७१. भारता० । भारताधिपतिः-भरतः, इभात्-गजात्, अतितुंगात्-अत्युच्चाद्,
अंबरवेश्मद्वारि-पटकुटिद्वारे, अवातरत्-उत्तरतिस्म। किं विशिष्टो भारताधिपतिः ? मालवक्षितिधवेन-मालवदेशाधीशेन, अर्पितः-दत्तः, हस्तः
यस्य, असौ । कस्मात् क इव ? मेरुगिरीन्द्रात् स्वर्गनाथ-इन्द्र इव । ७२. स्वस्ववा० । तदनुः-तदनंतरं, राजभिः-नृपः, स्वस्ववाहनवरात्-निजनिजयान
प्रवराद्, अवतेरे-उत्तीर्ण। किं विशिष्टः राजभिः ? नम्रशिरोभिः-नतोत्तमांगः, उपमीयते-गां गतः-भुवस्तलमाप्तः, सुरैः-देवैरिव, किं विशिष्टैः ? वरभूषयाप्रधानशोभया, भूषिता-शोभिता अंगरुचि:-देहकांतिः, तया राजितः वेषो येषां,
ते तः। .. ७३. वेत्रपा० । क्षितिराजः-भरतः, संसदालयं-सभागृह, इतः-आगतवान् । कि
विशिष्टः क्षितिराजः ? वेत्रपाणिभिः-दौवारिकैः, सुचरीकृतः-संचरणार्टीकृतः मार्गः यस्य, असो, कः किमिव ? पंचबाण:-कामः, यौवनमिवेति । किं विशिष्टं ? अन्तर-मध्ये, पुष्पसंचय:-कुसुमोच्चयः, धवलहासेन कान्तं-मनोज्ञं, यौवनपक्षे
पुष्पसंचयशुचिस्मिताः कान्ताः-स्त्रियो यत्र, तत् ।। ७४. सौधाद० । असौ-भरतः, सौधात्-हात् अपि, पटवेश्मना-पटकुटया, प्रमुमुदे
प्रमुदितवान् । कस्मात् ? रत्नौधेन चित्रितानि वितानानि-चन्द्रोदयाः, तेषां वितानं-समूहो वा विस्तारः, तदवत्वात्, यत्र-सौधे, प्रदीपकलिका पुनरुक्तभूत्यैउक्तस्य पुनर्भाषणाय, ज्वलंति-दीप्यते, कथं ? नक्त-निशीथे, किंमिव ? दिवेव वासरे इव । कस्मिन् सति ? धुमणौ-सूर्ये तपति सति दुर्दिनामुक्तिः।
•