________________
४५८
भरतबाहुबलिमहाकाव्यम् विज्ञातः, काभ्यां ? दायकत्वसुकृतित्वगुणाभ्यां । कथं तत्-तस्माद्धेतोरेष भरतः सोदरेण-बांधवेन सह युयुत्सुः-युद्धं कर्तुं इच्छुः, किं कृत्वा ? सात्त्विकत्वं
अवधूय-दूरीकृत्य । ६१. यो विवे० । अधुना-अस्मिन् समये स भरतः चरमाद्रि:-अस्ताचलः,
विवेकतरणेः अस्तमयाय भविता-भावी । स कः ? यो विवेकतरणेः उदयाद्रिः उदयाचलोस्ति। यत्-यस्माद्धेतोः, मेदिनीगगनचारिचमूभिः-भूचरविद्याधर
कटकैः, वृतः-संयुक्तः, बंधुविजित्यै–बाहुबलिविजयाय व्रजति । . ६२. मंडपः । स बाहुबलिः यदि नीतिलतायाः-न्यायवल्याः, मडप:-आश्रयोस्ति,
तहि अयं कथं ज्येष्ठं-बृहद्भ्रातरं नानमति-नमस्करोति, तु-पुनः, अयं बाहुबलिः अनया नत्या - अविनयमुच्छिनत्ति-उन्मूलयति । अधुना अस्य
भरतस्य नत्यां-नमस्कारे सति न मानहानिः नाहंकारस्य न्यूनता। . . ६३. मानिनां० । किलेति-श्रूयते, तस्य-बाहुबलेः, मानिनां प्रथमता प्राग-पूर्व,
त्रिजगति-त्रैलोक्ये, प्रथिमानं-गरिष्ठतां, गता-प्राप्ता। स बाहुबलि: एनंभरतं कथमेति-आगच्छति । किं कृत्वा ? तां मानिनां प्रथमतामपास्यत्यक्त्वा, जीवितात्-प्राणतः, अभिमानः शतगुणोऽस्ति। '
६४. एकदे० । न:-अस्माकं, विभुः-स्वामी, बांधवस्य-भ्रातुः, एकदेशवसु
धाधिपतित्वं-एकमंडलाधिपत्यं, न सहते-न क्षमते । मृगराजः-सिंहः, आत्मनः प्रतिरूपं जलगत वीक्ष्य-दृष्ट्वा , किं न कुप्यति ? . .
६५. यच्चका० । एव एव बहलीशः-बाहुबलिः, भारतक्षितिधवस्य-षट्खंडाधिपतेः,
पुरस्ताद्-अग्रतः, यद् रणचेष्टितं चकार-करोतिस्म, तदुच्चैः-महत्वाय, अस्यबाहुबलेः, बलवान्-सत्त्ववान्, अयं इत्येवंविधं यशो भविष्णु-भावि ।
६६. एतयोः । एतयोः-भरतबाहुबल्योः, समरतः-संग्रामतः, किलेति निश्चयेन,
नागवाजिरथपत्तिविनाश:-क्षयः, भावी-भविता। कयोरिव ? मत्तयोर्वनद्विपयोरिव कलहात्, पार्श्ववत्तितरुसंततिभंगः ।
६७. नागरैः । एष-भरतः, नागरैः-नगरवासिभिः लोकः, इति-पूर्वोक्तप्रकारेण,
वितर्कितः-विचारितः सन् अचलत्-चलतिस्म । किं विशिष्ट एषः ? कोशलापरिसरोपवनेषु-विनीतासमीपवनेषु, क्षिप्तचक्षुः-स्थापितदृष्टिः। कि विशिष्टेषु ? स्वर्वनात्-नन्दनवनाद्, अभ्यधिकविभ्रमभृत्सु-अतिशायिशोभाधारिषु । पुनः किं विशिष्ट एषः ? बलेन-कटकेन वा पौरुषेण युक्तः-सहितः ।