Book Title: Bharat Bahubali Mahakavyam
Author(s): Dulahrajmuni
Publisher: Jain Vishwa Bharati

View full book text
Previous | Next

Page 474
________________ पञ्जिका (सर्ग५) . ४४१ मनःशोकया, भवदतुच्छतमप्रणयोदयात्-भवदधिकतमस्नेहोदयात्, रुचिरया रुच्यया, करयुगं वलयांचितं-कटकसहितं, आदधे-चक्रे । ३३. अधित । तु-पुनः, काचन सुनयना-स्त्री, नयनार्पितकज्जला-नेत्रदत्ताञ्जना, कलभकुंभततस्तनलम्बिनी-करिकुंभपरिणाहिस्तनगाहिनी, नवमांसलरोचिषंनवीनपीनकान्ति, अनवमां-प्रधानां, गले हारलतां, अधित-दधौ । ३४. श्रवण । हे राजन् ! काचन नायिकया श्रवणयो:-कर्णयोः, वसुरत्नकरंबितं सुवर्णमणिमिश्रितं, उन्मनोभवसुरं-उत्कृष्टो मनोभवसुरो-कामदेवो येन यस्माद् वा, तत् । एतादृशं कुण्डलं, न्यधित-निहितवती । किं कुर्वती ? त्वदनु-भवत्पूर्वं, विकचवारिजवारिज़वागम-विकचांभोजनीरशीघ्रागमं, इच्छती-वांछती। ३५. नृप ! द० । बत इति कोमलामन्त्रणे, कयाचन रमणीजनकान्तया-स्त्रीजन मनोज्ञया, वरमणिः-प्रधानमौक्तिकं, अध्यधरोष्टक-अधरोष्टयोरधिकृत्य इत्यध्यधरोष्टकं, नासिकामुपरि इति उपरिनासिकं इति अव्ययीभावः, क्रियाविशेषणद्वयं । किं विशिष्टो वरमणिः ? कांतरुक्नवतर:-मनोज्ञरुचाभिनवः, पुनः किं विशिष्ट: ? रोषितमन्मथः-आरोपितकामः, दधे-ध्रियतेस्म । श्रवण । हे राजन् ! सुलोचना श्रवणपत्रकमौक्तिकराजिना-कर्णपत्रमुक्ताफलसोभिना, मुखेन निचिततारंकतारकनायक-व्याप्ततारकचन्द्रं, अनुकरोतिसमानतां याति । किं विशिष्टं ? शुचितम-विशदतमं । किं विशिष्टा सुलोचना ? चितमंगलसज्जना-पुष्टमंगलसामग्रीका । ३७. अतुल । हे कमललोचन ! तव दयिता लोचनयो:-नेत्रयोः, अतुलमाभरणं कज्जलं न्यधात्-विदधातिस्म । क इव ? स्मर इव, यथा स्मर:-कामः, भवद्रुहे-ईश्वरद्रोहाय, इषुमुखेषु-बाणमुखेषु, अयो-लोहं निदधाति । किं विशिष्टः कामः ? जगतः मदयिता-विश्वस्य ग्लपयिता। ३८. तव वि० । हे नृपविशेष !-हे राजविशेष !, च-पुनः, तव विलासवती· भवद्विलासिनी, निजेऽलिके-स्वभालस्थले, विशेषक-तिलकं, आचरत्करोतिस्म । उत्प्रेक्षते-रतिपते:-कामस्य, उदंचितं-ऊवीकृतं, भल्लमिवकंतमिव । किं विशिष्टं कुंतं विशेषकं च ? छविधरं-कांतिधरं, किं कुर्वन्तं ? अनूनतां-अहीनतां, विधरंतं-दधानं । ३६. व्यधित० । हे निशितकुन्तल !-निशितं कुंतलं-भल्लं लातीति-निशितकुंतल स्तस्यामंत्रणं । तव कापि अलसलोचना स्त्री, कुंतलमंडनं-केशप्रसाधनं, व्यधित

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550