________________
पञ्जिका (सर्ग५) .
४४१ मनःशोकया, भवदतुच्छतमप्रणयोदयात्-भवदधिकतमस्नेहोदयात्, रुचिरया
रुच्यया, करयुगं वलयांचितं-कटकसहितं, आदधे-चक्रे । ३३. अधित । तु-पुनः, काचन सुनयना-स्त्री, नयनार्पितकज्जला-नेत्रदत्ताञ्जना,
कलभकुंभततस्तनलम्बिनी-करिकुंभपरिणाहिस्तनगाहिनी, नवमांसलरोचिषंनवीनपीनकान्ति, अनवमां-प्रधानां, गले हारलतां, अधित-दधौ ।
३४. श्रवण । हे राजन् ! काचन नायिकया श्रवणयो:-कर्णयोः, वसुरत्नकरंबितं
सुवर्णमणिमिश्रितं, उन्मनोभवसुरं-उत्कृष्टो मनोभवसुरो-कामदेवो येन यस्माद् वा, तत् । एतादृशं कुण्डलं, न्यधित-निहितवती । किं कुर्वती ? त्वदनु-भवत्पूर्वं,
विकचवारिजवारिज़वागम-विकचांभोजनीरशीघ्रागमं, इच्छती-वांछती। ३५. नृप ! द० । बत इति कोमलामन्त्रणे, कयाचन रमणीजनकान्तया-स्त्रीजन
मनोज्ञया, वरमणिः-प्रधानमौक्तिकं, अध्यधरोष्टक-अधरोष्टयोरधिकृत्य इत्यध्यधरोष्टकं, नासिकामुपरि इति उपरिनासिकं इति अव्ययीभावः, क्रियाविशेषणद्वयं । किं विशिष्टो वरमणिः ? कांतरुक्नवतर:-मनोज्ञरुचाभिनवः, पुनः किं विशिष्ट: ? रोषितमन्मथः-आरोपितकामः, दधे-ध्रियतेस्म । श्रवण । हे राजन् ! सुलोचना श्रवणपत्रकमौक्तिकराजिना-कर्णपत्रमुक्ताफलसोभिना, मुखेन निचिततारंकतारकनायक-व्याप्ततारकचन्द्रं, अनुकरोतिसमानतां याति । किं विशिष्टं ? शुचितम-विशदतमं । किं विशिष्टा सुलोचना ? चितमंगलसज्जना-पुष्टमंगलसामग्रीका ।
३७.
अतुल । हे कमललोचन ! तव दयिता लोचनयो:-नेत्रयोः, अतुलमाभरणं कज्जलं न्यधात्-विदधातिस्म । क इव ? स्मर इव, यथा स्मर:-कामः, भवद्रुहे-ईश्वरद्रोहाय, इषुमुखेषु-बाणमुखेषु, अयो-लोहं निदधाति । किं
विशिष्टः कामः ? जगतः मदयिता-विश्वस्य ग्लपयिता। ३८. तव वि० । हे नृपविशेष !-हे राजविशेष !, च-पुनः, तव विलासवती· भवद्विलासिनी, निजेऽलिके-स्वभालस्थले, विशेषक-तिलकं, आचरत्करोतिस्म । उत्प्रेक्षते-रतिपते:-कामस्य, उदंचितं-ऊवीकृतं, भल्लमिवकंतमिव । किं विशिष्टं कुंतं विशेषकं च ? छविधरं-कांतिधरं, किं कुर्वन्तं ?
अनूनतां-अहीनतां, विधरंतं-दधानं । ३६. व्यधित० । हे निशितकुन्तल !-निशितं कुंतलं-भल्लं लातीति-निशितकुंतल
स्तस्यामंत्रणं । तव कापि अलसलोचना स्त्री, कुंतलमंडनं-केशप्रसाधनं, व्यधित