________________
४४०
— भरतबाहुबलिमहाकाव्यम् २५. इति र० । हे बन्धुरबन्धुरमालय !-हे मनोज्ञस्वजनलक्ष्म्यालय ! इति-अमुना
प्रकारेण, आर्तवं उत्सवं-शत्रुसंबंधिनं क्षणं कलय। किं विशिष्टस्त्वं ? रथांगभृत्-चक्रभृत् । त्वं किं चिकीर्षुः ? बलिभुवं-बाहुबलिभुवं, प्रयियासुः । किं विशिष्टस्त्वं ? सदयित:-सस्त्रीकः । पुनः किं ? दयितोरुविपक्षभी:दत्तबहुशत्रुभयः।
२६. इति स०। इति-उक्तप्रकारेण, ध्वजिनीपतौ-सेनान्यां, समीरयति सति-कथयति
सति, विनयतो नयतोयधिपारगं-न्यायाब्धिपारगं, नृपमुपेत्य स कंचुकिक्षितिवर:सोविदल्लराजस्तदा इति जगाद । स कः? योऽत्र शुद्धान्ते अतिवर:-अतिश्रेष्ठः।
२७. कुमुद० । हे राजन् ! तव अधिमत:-अधिकमान्यः, दयिताजनः-स्त्रीजनः, इति
हेतोविशिष्य-विशेषतः, विभूषणं बिभति-धरति । किं. विशिष्टस्य तव ? विधिमतः-भाग्यवतः, इतीति किं ? भुजेरितवैरिणा-दोर्दडक्षिप्तवैरिणा,
क्षितिभुजा-राज्ञा, कुमुदहासवती शरदाश्रिता। २८. नुप ! भ० । हे नृप ! अजः-कामः, कुसुमस्फुरद्धनुकरः-कुसुमस्फुरच्चापंपाणिः ।
धनुः शब्दः उकारान्तोप्यस्ति अभिधानचिन्तामणिवृत्तौ । भवन्तं कथंचन महता कष्टेन अनुकरोतु-तुल्यतां यातु, रतिरपि त्वदनेकनितंबिनीनिवहतां-भवदनेक
स्त्रीसमूहतां, वहतां-धारयतां । हि-यतः, रतिः पतिव्रता। २९. त्वदव० । हे क्षितिपराज !-हे राजराज !, त्रिदशराजवधूरपि सांप्रतं नयन
विभ्रमविभ्रमभर्त्सनात्-नेत्रकटाक्षशोभातर्जनात् त्वदवरोधजनात्-त्वदन्तःपुरजनात्, ऋतुसज्जितात्-ऋतुनिमित्तं सज्जीभूतात्, पराजय-पराभूति, अश्नुतेप्राप्नोति।
३०. सपदि० । अथ विभूषणविधिमाह । हे राजन् ! सपदि-सत्वरं, काचित्-कांता,
चरणयोः रणयोगविचक्षणं-रणः-शब्दः, तस्य योगो-युक्तिस्तत्र विचक्षणं, वा राज्ञ आमंत्रणविषये, हे रणयोगविचक्षण !-हे संग्रामयोजनकवे ! मणिनूपुरं अधात्-दधतिस्म । उत्प्रेक्षते-हठान् मदनं शयितं-सुप्तं, विजयश्रिया अतिशयितं -अतिरिक्तं किं बोधयितुमिव-जागरयितुमिव ।
.३१.
परिद० । हे सुभग ! काचन स्त्री, काञ्चनमेखलां परिहितेन-परिधानीकृतेन, सितवाससा-नीलवस्त्रेण, पिहितां-आच्छादितां, मनोभवभूपतेरपि हितांहितकारिणी, उद्दीपनहेतुत्वात् रणन्मणिशिंजनी मुखरां परिदधे-परिदधातिस्म।
३२. करयु० । हे राजन् ! कौतुकात् कयाचिद् अबलया चिरयातमनःशुचा-चिरगत