________________
४३६
घनाघनाः मेघाः, तेषां गमः - नाशः यस्मिन्, असो, तं । किं० वि० ? नगमंजुकलस्वनैः–नगाः–पर्वताः वृक्षाश्च तेषु मंजु - मनोज्ञं, कलः - गंभीरो ध्वनिः येषां, ते, तैः । '
पञ्जिका (सर्ग ५)
१६. इह भ० । इह - अस्यां शरदि भवानिव तरुततिरस्ति, विवर्द्धभिः सुरभिभि:सुवासिभिः प्रसवः - पुष्पैः पत्रैश्च, नवैः - तरुणैः प्रसरत्फलसंततिः - प्रसरती फलानां संततिर्यस्या वा । किं विशिष्टा तरुततिः ? रुततीव्रवयोगणा - रुतेनकूजितेन, तीव्रा - उत्कटा, वयोगणाः - पक्षिसमूहाः यस्यां सा । नोपमानं लिंगव्यत्ययतां दूषयति । यदाह मैषधकारः - 'ब्रह्मव चेतांसि यतव्रतानां ।'
२०. धनुर० । हे अनुत्तरधीः, हे ताचय ! तां - लक्ष्मी चिनोतीति ताचयः, तस्यामंत्रणं त्वं करपंकजे धनुश्चापं, रचय - कुरु । किं विशिष्टं ? द्विषां तापकरं, उत्प्रेक्षतेतव भयात्, गोपतिना - वासवेन हृतं शरदींद्रधनुरभावः स्यात् । त्वं किं ? • वसुधाधिपचक्षुषां नृपनेत्राणां नवसुधा - नवामृतं ।
२१. सपदि । हे चितरङ्ग ! - हे पुष्टीकृत रंग !, सरिज्जलं च - पुनः, तव द्विषां गूथपथं - हृदयं, गवि - पृथिव्यां भियां पदं कलय । किं विशिष्टं सरिज्जलं ? सपदि - तत्कालं, पीतनदीरमणोदयात्-अगस्ते रुदयात्, शुचितरं - अतिविशदं । किं विशिष्टस्य तव ? विपदंतकृतः - आपत्क्षयकारकस्य ।
२२. कलम० । हे चक्रभृत् !, कलमगोपवशाः - शालिगोप्यः, किल - निश्चयेन, लयशोभनं -लयो गीतिविश्रामविशेषस्तेन शोभनं - सुन्दरं यथा भवति तथा, उज्जगुः-उज्जयंतिस्म । काभिः ? परभृतानिभृतस्वरगीतिभिः । किं विशिष्टं यशः ? शुचिः - पवित्रा, रमा - शोभा यस्य, तत्, पुनः किं विशिष्टं ? चिरमंगलकारणम्. ।
२३. गिर इ० । हे क्षितिराज । तव गिर इव इक्षवो मधुराशिसितारसात् - मधुशर्करा - रसादतिमधुरा - अतिम्रिष्टा, सतां मनांसि व्यवहरति - आकृषंति । कथं ? मुहुः । किं विशिष्टा गिरः इक्षवश्च ? रसमयाः - रसाः शृंगारादयस्तन्मय्यो गिरः, कथं ? समया - समीपे, काः नगरीभुवः । समयायोगे द्वितीया चिन्त्या ।
२४. प्रसर० । हे अरिमलोदयवजित ! - हे वैरिपापोदयोज्झित !, पवनेरितवत्तयावायुप्रेरितवत्तया, उपवने अपि पुनर्भवदानने, श्वसितगन्धवहः – श्वासवातः, इह - अस्यां शरदि, वने - पानीये, कलमोल्लसत्परिमलः - आमोदः, प्रसरति, कलमाः प्रायेण पानीये भवंति ।