________________
४४३
भरतबाहुबलिमहाकाव्यम् _ विधत्तेस्म । कैः ? विचिकिलाभिनवप्रसवोच्चयैः-मालतीनवसमसमहै:, किं विशिष्टैः ? सुमनसां मनसां प्रमदप्रदः-देवचित्तहर्षदैः, चक्रवत्तिस्त्री देवाधि
ष्ठिता भवतीत्यागमः । ४०. इति वि० । हे राजन् ! तव सुदृशः पश्यतो मम मुदमदुः-हर्ष ददतिस्म । का
इव ? हरिवधूरिव-वासवस्त्रिय इव, धूतसुरालयाः-त्यक्तस्वर्गाः, भुवमागता इत्यर्थः । पुनः किं विशिष्टाः ? इति-उक्तप्रकारेण, विभूषणभूषितभूघनाःआभरणराजितांग्यः । पुनः किं विशिष्टा: ? दमदुर्द्धरदुर्लभाः .दमेन-दांत्या, दुर्द्धरा:-दुःसहाः, अर्थान् मुनयस्तैर्दुर्लभाः-दुःप्रापाः । प्रायेण महातपस्विनःचक्रवर्तित्वं प्राप्नुवंतीत्यागमः ।
४१. तव व० । हे जगतीश !-हे पृथिवीपते !, तव अनुत्तरदृष्टिभिः-मनोज्ञनेत्राभिः,
वधूभिः त्रिजगती चमत्कृता-विस्मापिता, अतः-हेतोरिह-अस्मिन् जगति, अनघरूपतया-निर्मलरूपत्वेन, सुकृतिभिः कृतिभिश्च-पुण्यवभिः पंडितैश्च,
ता विशिष्य-विशेषमाधाय, ईरिताः-उक्ताः। ४२. प्रथिति० । हे राजन् ! हि-निश्चयेन, सुदृशों ऽगना, इति धिया-इति बुध्या,
अंगपिधित्सया-अंगाच्छादनेच्छ्या, उपरितः-उपरिष्टात्, परित:-सर्वतः, सिचय-वस्त्रं, उपलक्षणादुत्तरीयं, न्यधु:-न्यस्यंतिस्म । इतीति किं ? योत्र नलिनीनिचये अधिपतया-प्रभुतया, प्रथितिमान् नलिनीनिचयाधिपः सूर्यः, स
पतयालुकरो मास्तु-पतिष्णुकरी मा भूयात् । यतोऽसूर्यपश्या राजदारा। ४३. रतिरधीश ! ० । हे अधीश !, हे नयार्णव !-न्यायांभोधे ! हे नतरोपितसौहृद !
नताः-नतिकारिणस्तेषु रोपितं-न्यस्तं, सौहृदं-मैत्र्यं येन, असौ, तस्यामन्त्रणं । कयाचित् सरसिजाननया-कमलवदनया, भवता समं वनतरोः पुष्पचये किमपि रति भीप्स्यतेऽपितु अभीप्स्यते एव वा अभिलष्यते एव ।
४४. सुभग ! ० । हे सुभगराज ! कयाचन कान्तया भवता सह मगवर:-गिरिवरः,
अलिनीमलिनीकृतकुड्मलैः-भ्रमरीम्लानीकृतमुकुलैः रन्तुं किं नापेक्ष्यते-न वांछति ? अपितु वांछत्येव । किं विशिष्टो नगवरः ? अगवरोद्धतनीडज:तरुवरोत्कटविहंगमः।
४५. त्वदव० । हे हृतमत्सरव्यसनिदेश !-हृतो मत्सरव्यसनिनां देशो येन, असौ,
तस्यामंत्रणं। हे क्रमनमज्जन !-हे क्रमनमन्नरपत्ते !, तव निदेशत:-आज्ञात एव कापि त्वदवरोधवधूः त्वया समं, अंभसि-पानीये, मज्जनं-स्नानं जलावगाहलक्षणं झटिति-सत्वरं, वांछति ।