________________
पञ्जिका (सर्ग५) ४६. किल वधू० । हे नप !, हे सुन्दर !, तव वधूः कापि जवरंजितगोद्विपं-वेग
रंजितैरावणं, गजवरं-गजश्रेष्ठं, अधिरोढुं-आरोढं, उपेक्षते-इच्छति । च-पुनः, कापि त्वदंगना अद्भुतं सितवसुं-श्वेतकान्ति, चलतरं तुरंगमं अधिरोढुमपेक्षते।
४७. ददत० । हे पराशुगभुजंगम ! परे-शत्रवस्त एव आशुगा:-वायवः, तेषु
भुजंगम इव यस्तस्यामंत्रणं। हे धृतरथांग !-धृतचक्र !, काचिद् सपदि रथमलं कुरुते । किं कुर्वन्तं रथं ? किं जंगमं सम इव-चलद्गेहमिमं ऊहंवितर्क, सुधियां-पंडितानां ददतं। किं विशिष्टं ? रथांगमनोरमरथस्यावयवर्मनोरम ।
४८. मणिवि० । हे नप !, मणिविराजितरैशिविकाकृते-मणिखचितसुवर्णजाप्ययान
निमित्ततया, कयाचन युवत्या याचनं-प्रार्थनं, आदधे-क्रियतेस्म । तया कया ? यदीयमनुनयनं-प्रसाधनं, अलं-अत्यर्थं, नयनंदितभूभुजा-न्यायाल्हादितपाथिवेन
त्वया स्वयमकारि-चक्र । . . . ४६. वनभु०। हे विबुधवल्लभ !-पंडितप्रिय ! हे माधव !-लक्ष्मीपते !,
निलयादपि-गृहादपि, वनभुवः शरदि च-पुनः, माधवमासि-वैशाखमासि, कामिनां मनः कृषति-आकृषंति, कथं ? समं, कया ? वल्लभया-कांतया,
कैः ? विविधैः द्रुमैः । ५०. तव क० । हे शुभरते !-कल्याणे रतिर्यस्य असौ, तस्यामंत्रणं । हे वृषभनन्दन !, . हे भरतेश्वर !-वधूहृदयानि-स्त्रींजनमनांसि, तव शासनात्-भवदाज्ञातः, तद्वनान्तरं• जिगमिषंति-गंतुमिच्छंति, तत् किं वनान्तरं ? यदग्रतो
नंदनकाननं-इन्द्रवनं किमस्ति ? ५१. न भवता० । हे भारतमेदिनीशिखरिशासन !-हे भरतक्षितीन्द्र !, हे
प्रणतकिन्नर !, शासनकारिभिः-आज्ञाकारिभिः, नरनायकैः-राजभिः, भवता-त्वया सह काननं नवं किं न एष्यते-किं न प्रव्रजिष्यतेऽपितु व्रजिष्यत एव । किं विशिष्टं काननं ? कृतमनोरति । विकच । हे गतगभीरिमभीरिमजित !-गतगांभीर्यकातरत्ववर्जित !, हे अनरसादर ! नराणां सादं-खेदं, राति-ददातीति नरसादः, न नरसादरः अनरसादरः तस्यामंत्रणं । यमकश्लेषचित्रेषु रलयोः सावर्ष्यात् अनलसादर इत्यपि वाच्यं । अनलस:-अलसरहितः आदरो यस्य, असो, तस्यामंत्रणं । विकचतामरसा दीर्घिका तव तत्र-वने रतिखेदमपास्तुं-निराकतुं, किं नालं स्यात् ? किं विशिष्टा दीपिका ? स्फुरद्घनरसा-स्फुरत्पानीया ।