________________
४४४
... भरतबाहुबलिमहाकाव्यम्
५३. ;षड्ऋतु० । किं लक्षणे वने ? षड्ऋतुभूरुहसंपदमाश्रिते-सर्वर्तुवृक्षश्रियमाश्रिते।
किं विशिष्टां षड्ऋतुभूरुहसंपदं ? समहिता-सर्वहितां, च-पुनः, वियोगिनां अहितां-वैरिणी, पुनः किं विशिष्टां ? कामिहद्दितविपल्लवपल्लवराजिनी-कामिचित्तखंडितापल्लेशपल्लवराजिनीं। पुनः किं विशिष्टे वने ?
फलपलाशसुमांचिनि। ५४. विधृतः । पुनः किं विशिष्टे वने ? विधृतवागुरवागुरिकावलीविगतविप्रिय
विप्रियभूरुहे-विधृतवागुरवागुरिकावलिः विगतं - विप्रियमपराधो व्यापादनलक्षणो येभ्यस्ते एतादृशा वयः-पक्षिणस्तेषां प्रिया भूरुहा:-वृक्षाः यस्मिन् तत्, तस्मिन् । वने किं कारयति ? रवरागविवद्धिका:-रवेण-शब्देन, राग-प्रेम, विवर्द्धयंतीति रवरागविवद्विकाः, स्वरवरा:-स्वरप्रधानाः, परभृताः
कोकिलाः, स्फुट अपि-पुनर्, मोदयति-आल्हादयति। ५५. विरहिः । वने किं कुर्वति ? विरहिणां कुसुममार्गणपोडनं-कामबाणव्यथनं,
प्रतिवासरं ददति-प्रयच्छति । अपि-पुनरर्थे, तदन्यविलासिनां-अवियोगिनां, गलितविप्रियया-गलितागसा, प्नियया-वल्लभया, सम-सार्धं, इह-अस्यां शरदि, मुदं-हर्ष, ददति। . . .
५६. पटकु० । हे रुचिरकानन !-चारुमस्तक !, तव योषितां विसरैः-समूहै:,
इतः-नगरतः, बहिः पटकुटी: परिताड्य, काननसत्तमे-वनवरे, निवत्स्यतेस्थास्यते । किं विशिष्टे काननसत्तमे ? अगरतोरुविहंगमे-अगेसु-वृक्षेषु, रताःआसक्ताः, उरवो-बृहत्तमाः, निर्भीकत्वात्, विहंगमाः-पक्षिण: यत्र, तस्मिन् । इति कलापकव्याख्यानं ।
५७. इति त० । स कंचुकिनायको मुदमवाप्य अविशरणं-अक्षयं, शरणं-गृहं, निजं
स्वकीयं, आययौ-आगतवान् । कस्मिन् सति ? इति-उक्तप्रकारेण, अहिभृतावनिबाहुना-अहिः-शेषोहिः तद्वत् भृता-धृता अवनिर्येन, असौ अहिभृतावनिः, एवंविधो बाहुर्यस्य, असौ, तेन । महीभृता-राज्ञा वा । हि-निश्चयेन, तदुक्तिविधौ उररीकृते सति-आमिति कथिते सति।
५८. इति न० । अथेत्यनन्तरं, नप: सुषेणमिति उपादिशत् । इतीति किं ? हे
बलविरोचन !-ध्वजिनीरवे !, चेद्-यदि, तव बहलीशितुराहवं-बाहुबलेः संग्राम, कलयितुं-ज्ञातुं, रोचनं-अभिलाषोऽस्ति, तदा त्वं अमर्त्यकान्-देवान्,
तदात्वं-तत्कालं, अव-प्रीणय । उक्तं रघुकाव्ये-न मामवति सद्वीपा। ५६. तदि च० । हे द्विषत्कृतपराजय !-वैरिकृतविजय-!, तदि-तदा, त्वं
चतुभिर्बलैरलयतमः-अनुलंघ्यतमः, राजयसे-दीपयसे । हे अकुरुते !-हे