SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ पञ्जिका (सर्ग ५) . ४४५ अकुत्सितशब्द ! भवान् धराधवबाहुबलेः पुरो युधि-संग्रामे, यदि स्थिति कुरुते-विधत्ते । ६०. त्वमिह । हे सुगुणमण्डल !-हे सुगुणसमूह !, त्वं मंडलनायकान्-राज्ञः, दूतगिरा कृत्वा इह-नगर्या, सर्वतः-समताद्, आह्वय-आकारय । तदनुतदनन्तरं, तद्विजयाय-तस्य बाहुबलेः जयाय, समुत्सुकं मे मनः, हे कृतरमोदय !-विहितलक्ष्म्योदय !, मोदय-हर्षय। प्रथम । कुलकव्याख्या । प्रथमतः परितापितविद्विषं सबलमालवमालवभूपति इमां नगरी नयतात्-प्रापय । कया ? चरगिरा-दूतवाण्या। एवं सर्वेषां संटंकः । बलस्य मा-लक्ष्मी:, तस्याः लवो-विकाशः तेन सह वर्तमानः, सबलमालवः पश्चात्कर्मधारयः । मालवदेशविशेषस्तस्य भपतिस्तं । च-पनः. वसुद्विपवाजिनां वितरणैः-दानः, मुदिता मागधा:-वंदिनः, यस्माद् असो, पश्चात् कर्मधारयः । मागधाः-देश विशेषास्तेषां भूभृतं-राजानं । ६२. अपर० । अपरं-अन्यं, आहवः-संग्रामः, तस्य वृ त्तभरः-वृत्तान्तसमूहः, तेनोच्छ्वसंतः-ऊर्वीभवन्तः, श्रवणयोः कुन्तला:-केशाः यस्य, असौ, एतादृशः कुंतलवासवः-कुन्तलदेशाधिपस्तं । पुनः अहिताः-शत्रवस्त एव वारणा:-हस्तिनः, तेषां वारणं-निषेधनं, तत्र बुद्धिमान्-कोविदः, हरिसम:सिंहसदृशः, आरवः-शब्दः, यस्य, असौ, . एतादृशो मारवभूपति मरुसंबंधिराजानं । ६३. वितत० । विततानि-विस्तीर्णानि, मंगलानि यस्य, असौ,- एतादृशो जंगलपार्थिवः-जंगलदेशाधिपस्तं । पृथुल:-महान्, लाट:-लाटदेशः, स एव ललाट-भालं, तत्र विशेषक इव-तिलक इव वर्तते, यः असौ, तं प्रणतजनानां वत्सलः-हितकारी, एतादृशः कच्छदेशाधिपस्तं। द्विषतां-वैरिणां, अदक्षिणः वक्रः, एतादृशो दक्षिणदेशाधिपस्तं । ६४. अकरु । कलहे-संग्रामे, अकरुणं-निर्दयं, एतादृशं कुरुपुंगवं-कुरुदेशाधिपं, जवनाः-वेगवत्तराः, सैन्धवाः-वाजिनः, यस्य, असौ। ईदृशं सिंधुदेशाधिपं । गलंत:-क्षयंतः अरातयो यस्माद् असौ, एतादशं किरातमहीपति-भिल्लपति, मलयभूधरः-मलयाचलः, तस्य भूधर-राजानमादरात् । ६५. इति न० । इति उक्तान् नपान् अन्यानपि परमुदारं-परमं प्रमोदेन, अरं अत्यर्थं, उदारपराक्रमान्-उद्भटविक्रमान्, नयतात् इमां नगरौं । किं विशिष्टां नगरी ? नरचितां-नरसंकुलां । पुनः किं विशिष्ट्रां? सुरभुजा-इन्द्रण, रचितांविनिर्मितां इति कुलकार्थः ।
SR No.002255
Book TitleBharat Bahubali Mahakavyam
Original Sutra AuthorN/A
AuthorDulahrajmuni
PublisherJain Vishwa Bharati
Publication Year1974
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy