________________
४४६
-
भरतबाहुबलिमहाकाव्यम्
६६. निजहरिध्वनि०। हे बलप !-सेनाधिपते !, पत्तिचयेपि तरवारिकरे
करवाल करे, वा-अथवा धनं वितर-देहि। किं विशिष्टे पत्तिचये ?निजहरिध्वनिकपितकातरे-प्वसिंहनादक्षोभित कातरे, पुनः किं० ? अबलतपराभवैः-न बलेन-पराक्रमेण, एतः-आगतः, पराभव:-अभिभवः, येषां तानि तैरर्थाद् बलवत्तरः, एतादृशः परबलैः-विपक्षसैन्यः, अतिदुःसहे।
६७. सतन० । हे सुषेण ! मम तनयाः लक्षशः, सतनयाः-ससूनवः, नयनयोः
उत्सवं संदधतु-रचयंतु। किं विशिष्टाः ? न्यायादिना .नरहिताःलोकहितकारिणः, पुनः किं विशिष्टाः? प्रहरणाहरणाधिकलालसा:शस्त्रग्रहणाधिकस्पृहालवः ।
६८. समुप० । हे विदितसंगर !-प्रथितप्रतिज्ञ ! ये विद्याधराः दुरुत्तरे रणार्णवे
किमपि किंचिच्चक्रवर्त्यपेक्षया वहनंति-यानपात्रीभवंति। ले सविजया:अप्राप्तपराजयाः, विजयार्द्धगिरीश्वराः-वैताढ्यनायकाः, विमानविहारिणः संतः समुपयंतु-आगच्छंतु।
६६. इति नि०। एष सेनाधिपः अविरतं-निरंतरं, नतिकारिणां शुभं-शुभकारिणं
इति निगद्य-उक्त्वा, विरतं-निवृत्तं, एतादृशं नृपं भरतं आनमत्-प्रणनाम । पुनरेष सेनाधिपो जवतः-वेगात्, निजैः मनुजैः, भुजवतः-दोष्मतः, महीपतीन्राज्ञः, अजूहवत्-आकारयामास ।
७०. सकल । सः-सेनाधिपः, सकलराजकं-निखिलराजचक्र, द्रुततया-शीघ्रतया,
एतं-आगतं, अवेत्य नरपतेः-भरतस्य, अभिषेणनं-सेनयाभिगमनं, ऊचिवान्उक्तवान् । किं विशिष्टं सकलराजकं ? ततयातरणोत्सवं-ततो महान्, यातः प्राप्तः, रणोत्सवो येन, तत् । कस्मिन् ? अशुभहारिणि-अकल्याणध्वंसिनी, हारिणि-मनोज्ञ, वासरे-दिवसे ।
७१.
क्षितिभु० । किमुक्तं इत्याह । हे क्षितिपकुंजर !-राजश्रेष्ठः, उपशल्यनिवेशिनांग्रामसीमाधिवासिनां, क्षितिभुजां-राज्ञां, उन्मदैः-उत्तमैः, कुंजरसंचयैःहस्तिसमूहैः, नगरीणवनान्ता:-द्रुमरहितवनाकुलाः (वनाञ्चिताः,) इयं नगरी किं न आशु-शीघ्र, व्यरच्यत एव-विधीयत एव।
७२. भरत०। हे भरतराज !, समग्रगमक्रमात्-समस्तचलनानुक्रमात्, अचरमं
प्रथम, जिनवरं-तीर्थकरं वृषभध्वजं, नवरंगकरार्चनैः-नवरंगोत्पादकपूजनैः, मंगलकारणं-मंगलहेतुं, उपनन्तुं त्वं चर-व्रज । किं विशिष्टं जिनं ? इतान्तरशात्रवं-गतांतरवैरिणं ।