________________
पञ्जिका (सर्ग५)
४४७ ७३. मह जिं०। हे सुगुणसंश्रय !-सद्गुणाधार !, सुरतरो:-कल्पद्रोः, नवैः
कुसुमैः, जिनाधि-वृषभध्वजं, मह-पूजय, किं विशिष्टं जिनाधिपतिं ? रतरोगपराङ मुखं-सुरतव्याधिविमुखं, तदनु ते-त्वां, समरांगणसंगतंरणांगणागतं, जयः संश्रयते ।
७४. क्षितिप० । क्षितिपतिः श्रीभरतः, वलराजनिवेदितं-सुषेणसेनानीप्रणीतं वचनं
आदित-जग्राह । किं विशिष्टं वचनं ? मादिततागम-मादेः-लक्ष्म्यादेः, तत:महान्, आगमो यस्मात् तत्, तत् । च-पुनः, शुचिवपुः सन् वाससी परिधाय अभयदं-भगवन्तं, अमहत्-अपूजयत् । किं विशिष्टो राजा ? भयदंभहरःभीतिच्छलनाशकः ।
प्रहर०। ततः परं-तदनंतरं, स राजा प्रहरणालयमेत्य-आयुधशालां समागत्य, अरिप्रभृतीनि-प्रहरणानि-चक्रप्रमुखानि शस्त्राणि, विधिवद्-विधिना, आर्चतपूजयामास । किं विशिष्ट: ? रणानितसाध्वस:-रणे-संग्रामे अनितो-प्राप्तो, साध्वसो-भयं येन, असौ, पुनः किं विशिष्टः सः ? परमया रमया श्रितविग्रहःउत्कृष्टलक्ष्म्या श्रितदेहः ।
७६. एवं दे०। एवं-उक्तप्रकारेण, भारतेशः-भरतचक्री, नागाधीशं-पट्टहस्तिनं,
उच्चैः आरोहत्-आरूढवान् । किं विशिष्टो भारतेशः ? देवप्रणतचरणाम्भोरुहः-सुरनतपादपद्मः, किं विशिष्टं नागाधीशं? सुरगिरिमिव-मेरुमिव, उत्तुङ्ग. उन्नतं, पुनः किं विशिष्टं ? मौलिन्यस्यत्कनकमुकुट-मस्तकारोपितस्वर्णकोटीरं ।
पुनः किं विशिष्टं ? सोष्णरुक्पूर्वभूभृतः-ससूर्योक्याचलस्य, लक्ष्मीलीलां
शोभाविलासं, मुष्णाति-चोरयतीति, असौ तं । पुनः किं विशिष्टं ? अविरतं... निरंतरं, उत्फुल्लनेवारविन्दं-उत्फुल्लानि-विकस्वराणि नेत्रारविन्दानि यस्माद्,
असौ, तं।
.७७. मूर्ना० । अयो-निरंतरं, क्षितीशः-भरतः, स्वसौधात्-स्वगृहात्, निर्जगाम.. निर्गच्छतिस्म । किं कृत्वा ? नीराजनविधि-आरात्रिकविधानं, कृत्वा-विधाय ।
कि क्रियमाणः ? उत्तानाक्षः-ऊर्वीकृतनेत्रः, सुरनरगणैः वीक्ष्यमाणः-दृश्यमानः । पुनः किं क्रियमाणः ? चामरैः वीज्यमानः, किं कुर्वन् ? मूर्ना-शिरसा, अमलरूक्-विशदप्रभं छत्रं दधत्-धारयन्, क इव ? पूर्वाचल इव । यथोदयाद्रिः उच्छारदाभ्र-उत्कृष्टशारदीनमेघ, विधोबिम्बं-चन्द्रस्य मंडलं, बिभ्रत्-दधानः ।
७८. क्वचित् । स राजा श्रीपथं-राजमार्ग, आनशे-प्राप्तवान्, किं विशिष्टं
श्रीपथं ? क्वचित् प्रदेशे, सरसिजाननानां-स्त्रीणां, नयनविभ्रमः-नेत्रविलासः,