________________
४४८
भरतबाहुबलिमहाकाव्यम् श्यामलं । पुनः किं विशिष्टं ? विमानमणिरोचिषां समुदयः-विमानरत्नकिरणानां संमूहैः, विचित्रं-नानारूपं । पुनः किं विशिष्टं श्रीपथं ? असमयापिताब्दभ्रमअनवसरदत्तजलदभ्रान्ति, कैः ? दहनकेतनैः-धूमः, किं विशिष्टः दहनकेतनः ? वात्यया-वायुसमूहेन, विहायसि-व्योम्नि, विवर्तितः-प्रेखोलितैः, पुनः कि
विशिष्टः दहनकेतनः ? अगुरुयोनिभिः-कृष्णागुरुजन्मभिः। ७६. क्वचित् । पुनः किं विशिष्टं श्रीपथं ? सकलिकैः-सकोरकैः, कुसुमकुड्मलै:
पुष्पमुकुलैः, मनोज्ञश्रियं-कमनीयलक्ष्मीकं, पुनः किं विशिष्टं श्रीपथं ? भ्रमद्- . भ्रमरकूजितः-संचरन्द्विरेफारवैः, मुखरतया-वाचालतया, उद्धतं-उद्दामं, पुनः किं विशिष्टं श्रीपथं ? चटुललाचनानां नारीणां स्तनघटावलीघट्टनात्कुचघटश्रेणिसंपर्कात्, पतिष्णुवरमौक्तिकैः-पतयालुवरमुक्ताफलैः, विशदंउज्ज्वलं, इति युग्मार्थः।
८०. एतस्या०। चक्र', एतस्य-भरतस्याग्र-पुरस्तात्, संचचार-गच्छतिस्म । कि
विशिष्टं चक्र ? स्फूर्जज्ज्योतिःलक्ष्येण-स्फुरत्कांतिशतसहस्रण, लक्ष्य करोतीति, इत्येवंशीलं, किं कारयत् ? देवनारी:-देवांगनाः त्रासयत्-नाशयत् । किं विशिष्टा देवनारी: ? आकाशस्था:-नभोमार्गस्थिताः, कैः ? स्फुलिंगैःवह्निकणैः। किं कुर्वाणैः ? सर्वाशान्तान्-दशदिगंतान्, व्यश्नुवानैःव्याप्नुवद्भिः।
८१. तदितिः। सुरनरैः-देवमनुष्यैः, चित्ते-मनसि, तच्चक्र इत्येवं व्यकि
व्यचारि। इतीति किं ? अस्य भरतचक्रिणः किं आस्तरं-अन्तर्वति महस्तेज इदं उपागतं ? किमिति वितर्के । एष पुण्योदय, इह-अस्मिन् भवे, मूर्तिमत्वंदृश्यत्वं संशृत एव । किं विशिष्ट: पुण्योदयः ? प्रथमभवमवः-प्राग्भवजातः ।
इत्थं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मे, ऽयोध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका । नैपुव्यव्यवसायिपुण्यकुशलस्यास्यारविंदोद्गता, या तस्यामिति सैन्यसज्जनविधिः सर्गोऽभवत् पंचमः ।।
इति श्रीभरतबाहुबलिमहाकाव्ये पञ्जिकायां सेनासज्जीकरणो नाम पंचमः सर्गः।