________________
४४४
पञ्जिका (सर्ग६) षष्ठः सर्गः
१. राजमा० । गवेन्द्र:-राजा भरतः, राजमार्ग अतिलंध्य-अतिक्रम्य, गोपुरंपूर्वारं, आपत् । किं विशिष्टं राजमार्ग ? सद्भिः-साधुभिः, कमनीयंअभिलषणीयं, कमिव ? स्वर्गलोकमिव, यथा गवेन्द्रो-वासवः स्वर्गलोकमाप्नोति। पुनः किं विशिष्टं राजमार्ग .? सुमनसां-कुसुमानां, समुदायैः-समूहै:, संगतंसंयुक्तं, स्वर्गलोकपक्षे-सुमनसः-देवाः। पुनः किं विशिष्टं राजमार्ग ? वित्तततोरणं-विस्तीर्णतोरणं ।
२. तारके०। नृपः-सामन्तभूपैः, राजा-श्रीभरतः, अनुजग्मे-अनुगम्यतेस्म ।
कथं ? आरुचि-रुचि-अभिलाषं मर्यादीकृत्य आरुचि यथेष्टमित्यर्थः । किं कुर्वन् ? कौ—पृथिव्यां, मुदं-हर्ष, स्मेरतां-विकाशितां, विदधत्-निष्पादयन् । कैः क इव ? तारकैः राजा-चन्द्र इव अनुगम्यते । एतत्पक्षे-कौमुदंकुमुदां समूह, स्मेरतां विदधत्, आरुचि-आचन्द्रदीधिति, किं विशिष्टः ? नपतिवर्त्मविहायोभ्राजिभिः-राजमार्गाकाशविराजिभिः, पुनः किं विशिष्ट: कलितकांतिविशेषः-प्राप्तशोभातिशयैः. तारकपक्षे-कांतिः-विभा।
३. सेनया० । अथानन्तरं सेनया अभ्यधिकं-अधिकं यथा स्यात् तथा, अत्र
राजमार्ग, दिदीपे-दीप्यतेस्म। कयेव ? ज्योत्स्नेव, यथा ज्योत्स्नया-चन्द्रातपेन दीप्यते । किं कुर्वत्या सेनया.? तं भरतं अनुलक्षीकृत्य प्रसरन्त्या-गच्छंत्या । . किं कुर्वत्या ज्योत्स्नया ? रजनीशं-चन्द्रं, अयंत्या-व्रजन्त्या। किं विशिष्टया ? .. पौरलोचनचकोराणां विवृद्ध आनन्दो-हर्षो यस्याः सा, तया ।
..४. वाहिनी० । अयं-भरतः, वाहिनीभिः-सेनाभिः, अभासीत्-शुशुभे । क इव ?
पाथसां पतिरिव, यथा समुद्रो वाहिनीभिः-नदीभिर्भाति । सेनानद्योविशेषणः साम्यमुच्यते । किं विशिष्टाभिर्वाहिनीभिः ? अवनीधरं-राजानं पर्वताद् वा . गच्छंतीति ताः, ताभिः, पुनः किं विशिष्टाभिः ? घनवाहैः-दृढाश्वः
मेघप्रवाहैश्च, अधिकं विस्तृताभिः-प्राप्तविस्तराभिः, पुनः किं विशिष्टाभिः ? ___. कुभिनां-हस्तिनां, कुम्भस्थलरूपतटेषु-पुलिनेषु, वामः-मनोज्ञो वक्रो वा, रयो
वेगो यासां ताः, ताभिः।
५. दानवा०। वाजिभिः-अश्वः, स्वक्षुरोद्धतरजोभिः-निजखुरोड्डापितरेणुभिः
कृत्वा, व्योम-आकाशमिति हेतोः सवासः सांबरमकारीव व्यरच्यतेव । इतीति
किं ? दानवारिपति:-इन्द्रः, अस्माकमभीप्सुः-अस्मद्वांछको मा भवतु । ... कुतः ? आत्मतुरंगभ्रांतित:-उच्चैःश्रवोभ्रमात् । ६. वारणाः० । इह-अस्मिन् राजमार्गे, यंत्रिभिः-आधोरणः, वारणाः-हस्तिनः,