________________
४५०
भरतबाहुबलिमहाकाव्यम् कथमपि-महता कष्टेन, विधार्याः-प्रयत्नेन रक्षणीयाः आसन् । किं कुर्वतः ? बिभ्यत:-भयं प्राप्नुवंतः । किं कृत्वा ? सिंहवदनाकृतिवाहान्-सिंहमुखाकारान् अश्वान् वीक्ष्य, किं विशिष्टान् ? कुथपरिष्कृतदेहान-सन्नाहसंवेष्टिततनून् । किं विशिष्टा वारणाः ? चकितपौरसुनेत्राः-भीतपौरस्त्रीकाः ।
७. कश्चन । सप्तिभिः-तुरगः, अतिवेगात् गगनमेव ललम्बे-आश्रितं । कि
विशिष्टः सप्तिभिः ? उज्झितधरैः-त्यक्तवसुधैः । कैरिव ? पक्षिभिरिव । किं विशिष्टः पक्षिभिः ? आततपक्षः-विस्तारितच्छदैः । किं कृत्वा . ? . पार्श्वसंचरदनेकपराजी:-अभ्यर्णागतगजश्रेणी:क्ष्य ।
८. चित्रका० । अत्र-राजमार्गे, वृषभैः स्यंदनाः-रथाः, द्राक्-शीघ्र, मुमुचिरे
मुक्ताः । किं विशिष्टः वृषभैः ? चित्रकाननहयाधिकभीत:-चित्रकायास्यतुरगात् . पलायितैः, पुनः किं विशिष्टैः ? कण्ठकन्दलविलम्बितयोक्त्रै:-कंठकंदले-ग्रीवायां, विलंबित:-संश्रितः कोक्त्रो येषां ते, तैः। किं कृत्वा ? प्राजनप्रहरणानितोदनप्रहारान् अवमत्य-अवज्ञाय ।
६. पत्तिभिः । पत्तिभिः-पदातिभिः, क्वचन दीप्यतेस्म । किं विशिष्टः पत्तिभिः ?
शौर्यरसोद्यत्कुंतलः । पुनः किं विशिष्ट: ? कलित:-गृहीतः, भल्लो येन, तत् कलितकुंतं, कलितकुंतकराग्र येषां, ते, तैः । उत्प्रेक्षते-वीर्यः मूर्ततां अधिगतैः-प्राप्तः, अब्धेः-समुद्रस्य, लहरीभिः-तरंगैरिव ।
१०. सिंहना० । इह-अस्मिन् भरतसैन्ये, सिंहनादमुखरैर्वीरैः मृदभरालसयो नागा
इति शाकपार्थिवादिमध्यमपदलोपीसमासः । त्रासिताः-भापिताः । तै:-गजः, कुरंगनयना:-स्त्रियः, विहस्ता:-व्याकुलीकृताः। ताभिः-नारीभिः, शिशवः
बालाः, उत्ससृजिरे-त्यक्ता इति त्रिभंगोन्वयः । ११. खेचरै० । खेचरै:-विद्याधरैः, चतुरंगसेनासंचारबाहुल्यात् संकुलो नृपमार्गः
राजपथः, अपजहे-त्यक्तः । त्रिदशवर्त्म-गगनं, जगाहे-अगायत। च-पुनः तैः-खेचरैः, तत्र-त्रिदशवर्त्मनि नाकिखेचरविमानविहारैः-सुरविद्याधरविमान
संचारैः कृत्वा घनसंकटता-बहुलसंकीर्णता, अहे-प्राप्ता। . १२. अंतरो० । व्योमगैः-विद्याधरैः, अंतरा-मध्ये उद्यतरजोपि-उड्डीयमानरेणुरपि,
निरासे-दूरीकृतं । कया ? वारणप्रहरणांबुविसृष्ट्या -वरुणास्त्रपानीयवर्षणात्, किं विशिष्टः व्योमगैः ? बलविलोकनशौंड:-सैन्यनिभालनदक्षः। इतीति किं ? न:-अस्माकं विद्याधराणां, पश्यतां-विलोकयतां, विघ्नः-व्यवायः, इहअस्मिन् समये, न अस्तु-न भवतु ।