Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1291 // पृथिव्यादीनां त्वल्पचैतन्यत्वात् कार्यानुपलब्धि जीवत्वादिति, जीवा अप्येकान्तक्षणिका न भवन्ति, निरन्वयनाशे उत्तर |4. चतुर्थक्षणस्यानुत्पत्तेर्निर्हेतुकत्वादेकान्तनष्टस्यासदविशेषत्वात्, सत्त्वाः संसारिणः (देहप्रमाणाः), प्रत्युक्ता एव संसारातीता अपि मध्ययनम् प्रतिक्रमणं, विद्यन्त एवेति, जीवस्य सर्वथा विनाशाभावात्, तथाऽन्यैरप्युक्तं- नासतो विद्यते भावो, नाभावो विद्यते सतः / उभयोरपि दृष्टोऽन्त 4.5 स्त्वनयोस्तत्त्वदर्शिभिः॥१॥ इत्यादि। कालस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तु नास्त्येव काल इति कालपरिणतिर्वा त्रयस्त्रिंशविश्वमिति, तथा च दुर्नयः-कालः पचति भूतानि, कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः॥ 1 // स्थानम्। सूत्रम् इत्यादि, उत्तरं- कालोऽस्ति, तमन्तरेण बकुलचम्पकादीनां नियतः पुष्पादिप्रदानभावो न स्यात्, न च तत्परिणतिर्विश्वम्, एकान्तनित्यस्य परिणामानुपपत्तेः / श्रुतस्याऽऽशातनया, क्रिया पूर्ववत्, आशातना तु-को आउरस्स कालो? मइलंबरधोवणे य को कालो? / जइ मोक्खहेउ नाणं को कालो तस्सऽकालो वा?॥१॥ इत्यादि, उत्तरं- जोगो जोग्गो जिणसासणंमि दुक्खक्खया पउंजंतो। अण्णोण्णमबाहाए असवत्तो होइ कायव्वो॥२॥प्रागधर्मद्वारेण श्रुताशातनोक्ता इह तु स्वतन्त्रविषयेति न पुनरुक्तम् / श्रुतदेवताया आशातनया, क्रिया पूर्ववत्, आशातना तु श्रुतदेवता न विद्यतेऽकिञ्चित्करी वा, उत्तरं-न ह्यनधिष्ठितो मौनीन्द्रः खल्वागमः अतोऽसावस्ति, न चाकिञ्चित्करी, तामालम्ब्य प्रशस्तमनसः कर्मक्षयदर्शनात् / वाचनाचार्यस्याऽऽशातनया, क्रिया पूर्ववत्, तत्र वाचनाचार्यो झुपाध्यायसंदिष्टो य उद्देशादि करोति, आशातना त्वियं-निर्दुःखसुखः प्रभूतान् / वारान् वन्दनं दापयति, उत्तरं-श्रुतोपचार एषः क इव तस्यात्र दोष इति 0क आतुरस्य (औषधादाने) कालो मलिनाम्बरप्रक्षालने च कः कालः। यदि मोक्षहेतुर्ज्ञानं कस्तस्य कालोऽकालो वा?, // 1 // दुःखक्षयकारणात् प्रयुज्यमानो योगो जिनशासने योग्यः / अन्योऽन्याबाधया असपत्नो भवति कर्त्तव्यः॥ 2 // एतानि चतुर्दश सूत्राणि पूर्वाणि चैकोन्नविंशतिः, एतानि त्रयस्त्रिंशदाशातनासूत्राणि / अहंदाद्याशातनाः। भाष्यः 215-217 // 1291 //

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508