Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 503
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1343 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, | 4.7 जिननमस्कारादिः। सूत्रम् 28 (29) श्रद्धानादि स्वरूपम्। कृत्यल्युटो बहुलं (पा० 3-3-113) इति वचनात् कर्मणि ल्युट्, निरुपम यानं निर्यानम्, ईषत्प्राग्भाराख्यं मोक्षपदमित्यर्थः, तस्य मार्गो निर्याणमार्ग इति, निर्याणमार्ग:-विशिष्टनिर्वाणप्राप्तिकारणमित्यर्थः, अनेनानियतसिद्धिक्षेत्रप्रतिपादनपरदुर्णयनिरासमाह, निर्वृतिनिर्वाणं- सकलकर्मक्षयजमात्यन्तिकं सुखमित्यर्थः, निर्वाणस्य मार्गो निर्वाणमार्ग इति, निर्वाणमार्गः परमनिर्वृतिकारणमिति हृदयम्, अनेन च निःसुखदुःखा मुक्तात्मान इति प्रतिपादनपरदुर्णयनिरासमाह, निगमयन्नाह- इदंच अवितहमविसंधिंसव्वदुक्खप्पहीणमगंअवितथं-सत्यं अविसन्धि-अव्यवच्छिन्नम्, सर्वदा अवरविदेहादिषुभावात्, सर्वदुःखप्रहीणमार्ग-सर्वदुःखप्रहीणो-मोक्षस्तत्कारणमित्यर्थः, साम्प्रतं परार्थकरणद्वारेणास्य चिन्तामणित्वमुपदर्शयन्नाह-एत्थट्ठि (इत्थंट्ठि) या जीवा सिझंति त्ति अत्र नैर्ग्रन्थे प्रवचने स्थिता जीवाः सिध्यन्तीत्यणिमादिसंयमफलं प्राप्नुवन्ति बुझंती ति बुध्यन्ते केवलिनो भवन्ति मुच्चंति त्ति मुच्यन्ते भवोपग्राहिकर्मणा परिनिव्वायंति त्ति परि-समन्तात् निर्वान्ति, किमुक्तं भवति?सव्वदुक्खाणमंतं करिति त्ति सर्वदुःरवानां शारीरमानसभेदानां अन्तं- विनाशं कुर्वन्ति- निवर्त्तयन्ति / इत्थमभिधायाधुनाऽत्र चिन्तामणिकल्पे कर्ममलप्रक्षालनसलिलौघं श्रद्धानमाविष्कुर्वन्नाह तं धम्म सद्दहामि पत्तियामिरोएमि फासेमि अणुपालेमि, तं धम्मंसद्दहतो पत्तिअंतो रोयंतो फासंतो अणुपालंतो तस्स धम्मस्स अब्भुट्टिओमि आराहणाए विरओमि विराहणाए असंजमं परिआणामि संजमं उवसंपज्जामि अबंभं परिआणामि बंभं उवसंपजामि अकप्पं परियाणामि कप्पं उवसंपज्जामि अण्णाणं परिआणामि नाणं उवसंपज्जामि अकिरियं परियाणामि किरियं उवसंपन्जामि मिच्छत्तं परियाणामि सम्मत्तं उवसंपन्जामि अबोहिं परियाणामि बोहिंउवसंपज्जामि अमग्गं परियाणामि मग्गंउवसंपज्जामि ।।सूत्रम् 28 // (29) // 1343 //

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508