Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1345 // जंसंभरामि जंचन संभरामि जंपडिक्कमामि जंचन पडिक्कमामि तस्स सव्वस्स देवसियस्स अइयारस्स पडिक्कमामि समणोऽहं संजयविरयपडिहयपच्चक्खायपावकम्मो अनियाणो दिट्ठिसंपण्णो मायामोसविवजिओ।सूत्रम् 29 // (30) यत् किश्चित् स्मरामि यच्च छद्मस्थानाभोगान्नेति, तथा जं पडिक्कमामि जंच न पडिक्कमामि यत् प्रतिक्रमामि आभोगादिविदित यच्चन प्रतिक्रमामि सूक्ष्ममविदितम्, अनेन प्रकारेण यः कश्चिदतिचारः कृतः तस्स सव्वस्स देवसियस्स अतियारस्स पडिक्कमामि त्तिकण्ठ्यम्, इत्थं प्रतिक्रम्य पुनरकुशलप्रवृत्तिपरिहारायात्मानमालोचयन्नाह- समणोऽहं संजयविरयपडिहयपच्चक्खायपावकम्मो अणियाणो दिट्ठिसंपन्नो मायामोसविवज्जिओ त्ति श्रमणोऽहं तत्रापि न चरकादिः, किं तर्हि?, संयतः सामस्त्येन यतः इदानीम्, विरतो-निवृत्तः अतीतस्यैष्यस्य च निन्दासंवरणद्वारेण अत एवाह-प्रतिहतप्रत्याख्यातपापकर्मा, प्रतिहतं- इदानीमकरणतया प्रत्याख्यातमतीतं निन्दया एण्यमकरणतयेति, प्रधानोऽयं दोष इतिकृत्वा तत्शून्यतामात्मनो भेदेन प्रतिपादयन्नाह-'अनिदानों' निदानरहितः, सकलगुणमूलभूतगुणयुक्ततां दर्शयन्नाह-'दृष्टिसंपन्नः' सम्यग्दर्शनयुक्त इत्यर्थः / वक्ष्यमाणद्रव्यवन्दनपरिहारायाह-मायामृषाविवर्जकः (विवर्जितः)- मायागर्भमृषावादपरिहारीत्युक्तं भवति / एवंभूतः सन् किं? अड्डाइजेसुदीवसमुद्देसुपनरससुकम्मभूमीसुजावंति केइ साहूरयहरणगुच्छपडिग्गहधारा पंचमहव्वयधारा / अड्डारसहस्ससीलंगधारा अक्खयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि // सूत्रम् 30 // (31) अर्द्धतृतीयेषु द्वीपसमुद्रेषु- जम्बूद्वीपधातकीखण्डपुष्कराते॒षु पञ्चदशसु कर्मभूमिषु- पञ्चभरतपञ्चैरावतपञ्चविदेहाभिधानासु यावन्तः केचन साधवः रजोहरणगुच्छप्रतिग्रहधारिणः, निह्नवादिव्यवच्छेदायाह- पञ्चमहाव्रतधारिणः, पञ्च महाव्रतानि- प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुद्धसङ्गहायाह-अष्टादशशीलाङ्गसहस्रधारिणः, तथाहि-केचिद् भगवन्तोरजोहरणादिधारिणो 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.7 जिननमस्कारादिः। सूत्रम् 29 (30) असंयमादित्यागः। सूत्रम् 30 (31) मुनिवन्दनम्। PAN000000 // 1345 //

Page Navigation
1 ... 503 504 505 506 507 508