Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1344 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.7 जिननमस्कारादिः। सूत्रम् 28 (29) | श्रद्धानादि स्वरूपम्। य एष नैर्ग्रन्थ्यप्रावचनलक्षणो धर्म उक्तः तं धर्मं श्रद्दध्महे (धे) सामान्येनैवमयमिति पत्तियामि त्ति प्रतिपद्यामहे (o) प्रीतिकरणद्वारेण रोएमि त्ति रोचयामि, अभिलाषातिरेकेणासेवनाभिमुखतया, तथा प्रीती रुचिश्च भिन्ने एव, यतः क्वचिद्दध्यादौ प्रीतिसद्भावेऽपिन सर्वदा रुचिः, फासेमि त्ति स्पृशामि आसेवनाद्वारेणेति अणुपालेमि अनुपालयामि पौनःपुन्यकरणेन तं धम्मं सद्दहंतो इत्यादि, तं धर्मं श्रद्दधानः प्रतिपद्यमानः रोचयन् स्पृशन् अनुपालयन् तस्स धम्मस्स अब्भुट्ठिओमि आराधनाए त्ति तस्य धर्मस्य प्रागुक्तस्य अभ्युत्थितोऽस्मि आराधनायां- आराधनविषये विरतोमि विराधनाए त्ति विरतोऽस्मि-निवृत्तोऽस्मि विराधनायां- विराधनाविषये, एतदेव भेदेनाह- असंजमं परियाणामि, संजमं उवसंपज्जामि असंयम- प्राणातिपादादिरूपं प्रतिजानामीति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्यामीत्यर्थः, तथा संयम-प्रागुक्तस्वरूपं उपसंपद्यामहे (o), प्रतिपद्याम (हे) इत्यर्थः, तथा अबंभं परियाणामि बंभ उवसंपज्जामि अबह्म- बस्त्यनियमलक्षणं विपरीतं ब्रह्म, शेषं पूर्ववत्, प्रधानासंयमाङ्गत्वाचाब्रह्मणो निदानपरिहारार्थमनन्तरमिदमाह, असंयमाङ्गत्वादेवाह-अकप्पं परियाणामि कप्पं उवसंपज्जामि अकल्पोऽकृत्यमाख्यायते कल्पस्तु कृत्यं इति, इदानीं द्वितीयं बन्धकारणमाश्रित्याह, यत उक्तं (च)-अस्संजमो य एक्को अण्णाणं अविरई य दुविहं इत्यादि। अण्णाणं परियाणामि नाणं उवसंपज्जामि अज्ञानं सम्यग्ज्ञानादन्यत् ज्ञानं तु भगवद्वचनजम्, अज्ञानभेदपरिहरणार्यवाह- अकिरियं परियाणामि किरियं उवसंपज्जामि अक्रिया- नास्तिवादः क्रिया- सम्यग्वादः। तृतीय बन्धकारणमाश्रित्याह- मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि मिथ्यात्वं- पूर्वोक्तं सम्यक्त्वमपि, एतदङ्गत्वादेवाह- अबोहिं परियाणामि बोहिं उवसंपज्जामि अबोधिः- मिथ्यात्वकार्य बोधिस्तु सम्यक्त्वस्येति, इदानीं सामान्येनाह- अमग्गं परियाणामि मगं उवसंपज्जामि अमार्गो- मिथ्यात्वादिः मार्गस्तु सम्यग्दर्शनादिरिति / इदानीं छद्मस्थत्वादशेषशुद्ध्यर्थमाह // 1344 //

Page Navigation
1 ... 502 503 504 505 506 507 508