Book Title: Avashyak Sutram Part 03
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 502
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1342 // अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति // 4. चतुर्थसूत्रम् 27 // (28) मध्ययनम् प्रतिक्रमणं, इदमेवे ति सामायिकादि प्रत्याख्यानपर्यन्तं द्वादशाङ्गंवा गणिपिटकम्, निर्ग्रन्थाः- बाह्याभ्यन्तरग्रन्थनिर्गताः साधवः 4.7 जिननिर्ग्रन्थानामिदं नैर्ग्रन्थ्यं प्रावचन मिति प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम्, इदमेव नैर्ग्रन्थ्यं प्रावचनं नमस्कारादिः। किमत आह-सतां हितं सत्यम्, सन्तो-मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यमिति, नयदर्शनमपिस्वविषये सत्यं भवत्यत सूत्रम् 26-27 (27-28) आह- अणुत्तरं ति नास्योत्तरं विद्यत इत्यनुत्तरम्, यथावस्थितसमस्तवस्तुप्रतिपादकत्वात् उत्तममित्यर्थः, यदि नामेदमीत्थम्भूत- नमो मन्यदप्येवम्भूतं भविष्यतीत्यत आह-केवलियं केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः यदि नामेदमित्थभूतं तथाप्यन्यस्याप्य चउवीसाए इणमेव संभवादपवर्गप्रापकैर्गुणैः प्रतिपूर्ण न भविष्यतीत्यत आह- पडिपुन्नं ति प्रतिपूर्णमपवर्गप्रापकैर्गुणैर्भूतमित्यर्थः- भृतमपि निणथं। कदाचिदात्मभरितया न तन्नयनशीलं भविष्यतीत्यत आह-नेयाउयं ति नयनशीलं नैयायिकं मोक्षगमकमित्यर्थः, नैयायिक-2 मप्यसंशुद्धं-संकीर्णं नाक्षेपेण नैयायिकं भविष्यति इत्यत आह-संसुद्धं ति सामस्त्येन शुद्धंसंशुद्धम्, एकान्ताकलङ्कमित्यर्थः, एवंभूतमपिकथञ्चित्तथास्वाभाव्यान्नालंभवति बन्धननिकृन्तनाय (इदमपि तथा) भविष्यतीत्यत आह-सल्लगत्तणं ति कृन्ततीति कर्त्तनं शल्यानि-मायादीनि तेषां कर्त्तनं भवनिबन्धनमायादिशल्यच्छेदकमित्यर्थः, परमतनिषेधार्थं त्वाह- सिद्धिमग्गं मुत्तिमग्गं सेधनं सिद्धिः-हितार्थप्राप्तिः सिद्धेर्मार्गः सिद्धिमार्गः, मोचनं मुक्ति:- अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति, मुक्तिमार्ग- केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधकमिति भावना, अनेन च केवलज्ञानादिविकलाः सकर्मकाश्च मुक्ता इति दुर्नयनिरासमाह, विप्रतिपत्तिनिरासार्थमाह- निजाणमग्गं निव्वाणमगं यान्ति तदिति यानं // 1342 //

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508