Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 165
________________ नवरसाः श्रीअनु० हारि.वृत्ती ॥७१॥ णमाह-करुणो रसो यथा 'पज्झाय' गाहा (*७९-१३९) प्रध्यातेन-अतिचिंतया लांतं-बाप्पागतप्रप्लुताक्षं स्यन्दमानाच-च्योतलोचनमिति भावः, शेषं सूत्रसिद्धीमति गाथार्थः। प्रशान्तरसलक्षणमाह-'निद्दोस' गाहा (*८०-१३९) निर्दोषमन:समाधानसंभवः, हिंसादिदोषरहितस्य इंद्रियविषयविनिवृत्त्या स्वस्थमनसो यः प्रशान्तभावेन-क्रोधादित्यागेन अविकारलक्षण:-हास्यादिविकारवर्जितः असौ रस: प्रशान्तो ज्ञातव्य इति गाथार्थः, उदाहरणमाह-प्रशान्तो रसो यथा 'सम्भाव' गाहा (*८१-१३९) सद्भावनिर्विकार' न मातृस्थानत: उपशांतप्रशांतसौम्यदृष्टि-उपशांता-इंद्रियदोषत्यागेन प्रशांता-क्रोधादित्यागतः अनेनोभयेन सौम्या दृष्टिर्यस्मिन् तत्तथा, हीत्ययं मुनेः प्रशांतभावातिशयप्रदर्शने, यथा मुनेः शोभते मुखकमलं पीवरश्रीकं-प्रधानलक्ष्मीकमिति गाथार्थः। 'एते णव' गाहा (८२-१३९) एते नव काव्यरसाः, अनन्तरोदिताः द्वात्रिंशदोपविधिसमुत्पन्ना:-अनृतादिद्वात्रिंशत्सूत्रदोषास्तेषां विधिः समुद्भवा इत्यर्थः, तथाहि-वीरो रसो संग्रामादिषु हिंसया भवति तपःसंयमकरणादावपि भवति, एवं शेषेष्वपि यथासंभवं भावना कार्या, तथा चाह-गाथाभ्यः उक्तलक्षणाभ्यः मुणितव्या भवंति शुद्धा वा मिश्रा वा, शुद्धा इति काश्चिद्गाथा:-सूत्रबंधः अन्यतमरसेनैव शुद्धेन प्रतिबद्धाः, काश्चन मिश्रा: द्विकादिसंयोगेनेति गाथार्थः ॥ उक्तं च नवनाम, अधुना दशनामोच्यत, तथा चाह 'से किं तं दसनाम ? (१३०-१४०) दसनाम दशविधं प्रज्ञप्तं, तद्यथा-'गोणं नोगोण' मित्यादि, एतेषां प्रतिवचनद्वारेण स्वरूपमाह'से किं तं गोणे' गुणनिप्पण्णं गौणं, क्षमतीति क्षमण इत्यादि, 'से किं तं नांगोणे?' नोगोणो-अयथार्थ, अकुंतः सकुंत इत्यादि, अविज्जमानकुंताख्यप्रहरणविशेष एव सकुंत इत्युच्यते, एवं शेषेष्वपि भावनीय। 'से कितं आदाणपदेणं ? २' आदानपदेन धर्मो मंगलमित्यादि, इहादि-15 पदमादानपदमुच्यते । 'से किं तं पडिवक्खपदेणं २ प्रतिपक्षेषु नवेषु-प्रत्यग्रेषु मामाकरनगरखेटकटमडम्बद्रोणमुखपत्तनाश्रमसंबाधस AAAAAEब ॥ ७१।।

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222