Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 197
________________ आगम श्रीअनु० हारि.वृत्तौ ॥१०३॥ प्रमाणं दर्शन प्रमाणं च CHAARAACARECAकक नानन्तरागमः तल्लक्षणविरहात्, किंतु परंपरागमः, इत्यनेन चैकान्तापौरुषेयागमव्यवच्छेदः, पौरुषं ताल्वादिव्यापारजन्यं, नभस्येव विशिष्टशब्दानुपलब्धेः, अभिव्यक्त्यभ्युपगमे च सर्ववचसामपौरुषेयत्व, भाषाद्रव्याणां ग्रहणादिना विशिष्टपरिणामाभ्युपगमाद्, उक्तं च-'गिण्हई य काइएणं णिसरति तह वाइएण जोगेण मित्यादि, कृतं विस्तरेण, निर्लोठितमेतदन्यत्रेति, सोऽयमागम इति निगमनं, तदेतत् ज्ञानगुणप्रमाण । 'से किं तं दंसणगुणप्पमाणे' इत्यादि,दर्शनावरणकर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति,उक्तं च "ज़ सामण्णग्गहणं भावाणं कट्टु नेय आगारं । अविसेसिऊण अत्थं दसणमिति वुच्चए समए ॥१॥" एतदेव आत्मगुणप्रमाणं च, इदं च चतुर्विध प्रज्ञप्त-चक्षुर्दर्शनादिभेदात्, तत्र चक्षुर्दशनं तावच्चक्षुरिन्द्रियावरणक्षयोपशमे द्रव्येद्रियानुपधाते च तत्परिणामवत आत्मनो भवतीत्यत आह-चक्षुदर्शनत: घटादिष्वर्थेषु भवतीति शेषः, अनेन | च विषयभेदाभिधानेन चक्षुषोऽप्राप्तकारितामाह, सामान्यविषयत्वेऽपि चास्य घटादिविशेषाभिधानं कथंचित् तदनन्तरभूतसामान्यख्यापनार्थ,उक्तंच'निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते' इत्यादि, एवमचक्षुदर्शनं शेषेद्रियसामान्योपलब्धिलक्षणं, अचक्षुर्दर्शनिन: आत्मभावे-जीवभावे भवतीत्यनेन श्रोत्रादीनां प्राप्तकारितामाह, उक्तं च-"पुढे सुणइ सई रूवं पुण पासती अपुढे तु' इत्यादि, अवधिदर्शनं-अवधिसामान्यग्रहणलक्षणं अवधिदर्शनिनः सर्वरूपिद्रव्येषु, 'रूपिष्ववधे' (तत्त्वा.१ अ.२८सू.) रिति वचनादसर्वपर्यायेष्विति ज्ञानापेक्षमेतत्तु (त् न) दर्शनोपयोगिनः विशेषत्वात्तथापि | तद्वेदका इत्युपन्यासः, केवलदर्शनं केवलिन:, (अन्यत्र) सामान्याऽर्थीग्रहणसंभवात् क्षयोपशमोद्भवत्वात् , पठ्यते च विशेषग्रहणाद्दर्शनाभाव | इति, तदेतद्दर्शनप्रमाणं । 'से किं तं चारित्तगुणप्पमाण' मित्यादि, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रं, अशेषकर्म 1 क्षयाय चेष्टा इत्यर्थः, पंचविधं प्रज्ञप्तं, तच्च सामायिकमित्यादि, सर्वमप्येतदविशेषतः सामायिकमेव सत् छेदादिविशेषेविशेष्यमाणमर्थतः संज्ञातश्च नानात्वं लभते, तत्राचं विशेषणाभावात् सामान्यसंज्ञागामेव चावतिष्ठते सामायिकमिति, तत्र सावद्ययोगविरतिमात्रं सामायिक, तच्चे 4G SECRECASSAUGARCACANCEL ॥१०॥

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222