Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 221
________________ श्रीअनु: चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिळवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्मात् ज्ञानमेव प्रधानमहिकाहारि.वृत्तोमा मुमिकफलप्राप्तिकारणमिति स्थितं, 'इति जो उवएसो सो गयो णाम' ति इत्येवमुक्तेन न्यायेन य उपदेशो शानप्राधान्यख्यापनपर: सा .. नया नाम, शाननय इत्यर्थः, अयं चतुर्विधेऽपि सम्यक्त्वादिसामायिके सम्यक्त्वसामायिकश्रुतसामायिकद्वयमेवेच्छति, सामात्मकत्वादस्य, देश॥१२७॥ विरतिसर्वविरतिसामायिके तु तत्कार्यत्वात्तदायत्तत्वाच्च नेच्छति, गुणभूते वेच्छतीति गाथार्थः, उक्तो ज्ञाननयः, अधुना कियानयावसर: तदर्शनं चेद-पक्रयव प्रधानमहिकामुष्मिकफलप्राप्तिकारणं युक्तियुक्तत्वात, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह'णायमि गिण्हितव्ये I&Iइत्यादि, अस्य क्रियानुसारेण व्याख्या-माते प्रहीयध्ये चैवार्थ ऐहिकामुष्मिकफलप्राप्यर्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षण प्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलपितार्थावाप्तिर्दृश्यते, तथा चान्यैरप्युक्तं-'क्रियेव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, ४ान ज्ञानात्सुखितो भवेत् ॥ १॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिनापि क्रियव कर्त्तव्या, तथा च मुनीन्द्रवचनमप्येवमेव व्यवस्थित, यत उक्तंPIRI'चश्यकुलगणसंधे आयरियाणं च पवयणसुए य । सम्वेसुवि तेण कयं तवसंजममुज्जमंतेणं ॥ १ ॥' इतश्चैतदेवमंगीकर्तव्यं, यस्मा-1 तीर्थकरगणधरः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चाऽऽगम:-'सुबहुंपि सुतमहीतं किं काहिति चरणविप्पमुक्कस्त ? । अंधस्स ! जह पलित्ता दविसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः, एवं तावन् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, क्षायिकमप्यं| गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव ज्ञेयं, यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्तिप्राप्तिः संजायते यावदखिलौ - न्धनानलभूता हस्वपञ्चाक्षरोगिरणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्तेति, तस्मात्क्रियैव प्रधानमहिकामुष्मिकफलकारणदामिति स्थितं, 'इति जो उबएसो सो पओ णाम' त्ति इत्येवमुक्तन्यायेन य उपदेशः क्रिया प्राधान्यख्यापनपरः स नयो नाम, क्रियानय इत्यर्थः ।। ॐॐॐॐ ॥१२७।।

Loading...

Page Navigation
1 ... 219 220 221 222