Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 195
________________ अनुमान प्रमाणं श्रीअनु: शब्दविशेषेणानुमिन्वत इत्यध्याहारः, तत्कार्यत्वाद्धेसितस्य, एवं शेषोदाहरणयोजनापि कार्येति । तथा कारणेन तंतवः पटकारणं (न) पटः हारि.वृत्तों का तंतकारणमित्यनेनैतत ज्ञापयति-कारणमेव कार्यानुमापक, नाकारणं. पट: तन्तूनां, तत्कार्यत्वात्तस्य, आह-निपुणवियोजने तत एव तंतुभावा-1 ॥१०१॥ त्पटोऽपि तन्तुकारणमिति, ननु तत्त्वेनोपयोगित्वाभावात्तदभाव एव तन्तुभावादिति, न, नैव पटोत्पत्तौ सर्वथैव तन्त्वभावस्तेषामेव तथापरिणतिभावेनोपयोगात् , न चोद्यं पटपरिणाम एव तंतवः, तत्त्वेनोपयोगित्वाभावाद्भावे च पटभावेऽपि तंतुवत् पुनस्तंतुभावेऽपि पट उपलभ्येत, | न चोपलभ्यत इत्यतस्तंतवः पटकारणं, न पट: तंतुकारणमिति स्थितं, इदं च मेघोन्नतिः वृष्टिकारणं चन्द्रोदयः समुद्रवृद्धः कुमुदविकासस्य | चेत्याधुपलक्षणं वेदितव्यं, गुणेन सुवर्ण निकषेण, तद्गतरूपातिशयेनान्ये, तद्गुणत्वात्तस्य, एवं शेषोदाहरणयोजनाऽपि कार्या, अवयवेन सिंह शदंष्ट्या तदवयवत्वात्तस्य, आह-तदुपलब्धौ तस्यापि प्रत्यक्षत एवोपलब्धेः कथमनुमानविषयता ?, उच्यते, व्यवधाने सत्यन्यतोऽनुमेयत्वाद्वा न दोषः, एवं शेषोदाहरणयोजना कार्येति, नवरं मानुष्यादिकृतावयवोऽभ्यूह्य इत्येके, अन्ये तु द्विपदमित्येवमादिकमेवावयवमभिदधति, मनुष्यो| ऽयं तदविनाभूतपदवयोपलब्ध्यन्यथानुपत्तेरिति, गोम्ही कर्णसृगाली, तथाऽऽश्रयेणाग्निं धूमेन, अत्राश्रयतीत्याश्रयो धूमो यत्र गृह्यते, अयं चाग्निकार्यभूतोऽपि तदाश्रितत्वेन लोकरूढे देनोक्त इति, शेषोदाहरणयोजना सुगमा, तदेतच्छेषवदिति । 'से किं तं दिवसाधम्म' मित्यादि, दृष्टसाधर्म्यवत् द्विविधं प्रज्ञप्त, तद्यथा-सामान्यदृष्टं च विशेषदृष्टं च, तत्र सामान्यदृष्टं यथा एकः पुरुषः तथा बहवः पुरुषा इत्यादि, सामान्यधर्मस्य तद्भावगमकत्वादिति , विशेषदृष्टं तु पूर्वदृष्टपुरुषादि प्रत्याभिज्ञातं, सामान्यधर्मादेव विशेषप्रतिपत्तेरित्यमुनाऽशेनानुमानता, 'तस्स समासतो' का इत्यादि, तस्येति सामान्येनानुमानस्य समासत:-संक्षेपेण त्रिविधं ग्रहणं भवति, तद्यथा-अतीतकालग्रहणमित्यादि, प्रहण-परिच्छेदः, तत्राती तकालग्रहणं उद्गततृणादीनि दृष्ट्वाऽनेन दर्शनेन तदन्यथानुपपत्त्या साध्यते यथा सुवृष्टिरासीदिति, प्रत्युत्पन्नकालग्रहणं तु साधुं गोचराग्रगत-भिक्षा ॥१०१॥

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222