Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 194
________________ जीवज्ञान प्रत्यक्षमनुमानं च श्रीअनुठा नेत्युपमानं, गुरुपारम्पर्येणागकछतीत्यागमः । अथतद् व्याचष्टे-अथ किं तत्प्रत्यक्ष?, प्रत्यक्षं द्विविध प्रज्ञप्त, तद्यथा-इंद्रियप्रत्यक्षं च नाईद्रियप्रत्यक्षं हार.वृत्ताच, तत्रेन्द्रिय-श्रोत्रादि, तन्निमित्तं यदलैङ्गिक शब्दादिज्ञानं तदिद्रियप्रत्यक्षं व्यावहारिक, नोइंद्रियप्रत्यक्षं तु यदात्मन एवालिनिकमवध्यादीति | ॥१०॥ IN समासार्थः, व्यासाथेस्तु नंद्यध्ययनविशेषविवरणादेवावसेयः, अक्षराणि तु सुगमान्येव यावत्प्रत्यक्षाधिकार इति । उक्तं प्रत्यक्षं, अधुनाऽनुमान मुक्यते-तथा चाह-'से किं तं अणुमाण?" अनुमान त्रिविधं प्रज्ञप्तं, तद्यथा-पूर्ववत् शेषवत् दृष्टमाधर्म्यवच्चेति । से किं तं पुव्यवमित्यादि, विशे& पत: पूर्वोपलब्धं लि पूर्वमित्युच्यते, तदस्यास्तीति पूर्ववत , तद्वारेण गमकमनुमानं पूर्ववदिति भावः, तथा चाह-'माता पुत्तं' इत्यादि (*११४-८ २१२) माता पुत्रं तथा नएं बालन्यावस्थायां युवानं पुनरागतं कालान्तरेण काचिन स्मृतिमती प्रत्यभिजानीयात् मे पुत्रोऽयभित्यनुभिनुयात् पूर्व| लिङ्गेनोक्तस्वरूपेण केनचित् , तद्यथा-'क्षतेन वे' त्यादि, मत्पुत्रोऽयं तदसाधारणलिंगक्षतोपलध्यन्यथानुपपत्तेः, साधर्म्यवैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेन , न, हेतोः परमार्थेने कलक्षणत्वात् तत्प्रभावत एवमत्रोपलरधे, उक्तं च न्यायवादिना पुरुषचंद्रेण-"अन्यथानुपएन्न- त्वमात्रं हेतोः स्वलक्षणम् । सवारुचे हि तद्धर्मों, दृष्टान्तद्वयलक्षणः ॥१॥ तदभावतराभ्यां तयोरेव स्वलक्षणायोगादिति भावना, तथा 'धूमादेर्यथापि स्यातां, सत्त्वासत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्यालक्षणकता ॥२॥" किंच-"अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम? । 1 इत्यत्र बहु वक्तव्यं, तरच प्रन्थविस्तरभयादन्यत्र च यत्नेनोक्तत्वान्नाभिधीयत इति । प्रत्यक्षविषयत्वादेवास्यानुमानत्वकल्पनमयुक्तं, न, पिण्डपरिच्छित्तावपि पुत्रो न पुत्र इति संदेहात् पिंडमात्रस्य च प्रत्यक्षविषयत्वात मत्पुत्रोऽयमिति चाप्रतीते; तल्लिङ्गत्वादिति कृतं प्रसंगेन, प्रकृतं प्रस्तुमः, तद्भवं क्षतमागन्तुको व्रणः लाञ्छनं मसतिलकाः प्रतीतास्तदेतत्पूर्ववदिति । 'से किं तं सेसव' मित्यादि, उपयुक्ताद्योऽन्यः स सेप इति कायादि गृह्यते, तदस्याम्तीति शेपवद्, भावना पूर्ववदिति, पंचविध प्रज्ञप्तं, तद्यथा 'कार्येणे' न्यादि, तत्र कार्येण कारणानुमानं यथा हयः-अश्वः हिसितेन | 1 ॥१०॥

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222