________________
जीवज्ञान
प्रत्यक्षमनुमानं च
श्रीअनुठा नेत्युपमानं, गुरुपारम्पर्येणागकछतीत्यागमः । अथतद् व्याचष्टे-अथ किं तत्प्रत्यक्ष?, प्रत्यक्षं द्विविध प्रज्ञप्त, तद्यथा-इंद्रियप्रत्यक्षं च नाईद्रियप्रत्यक्षं हार.वृत्ताच, तत्रेन्द्रिय-श्रोत्रादि, तन्निमित्तं यदलैङ्गिक शब्दादिज्ञानं तदिद्रियप्रत्यक्षं व्यावहारिक, नोइंद्रियप्रत्यक्षं तु यदात्मन एवालिनिकमवध्यादीति | ॥१०॥ IN समासार्थः, व्यासाथेस्तु नंद्यध्ययनविशेषविवरणादेवावसेयः, अक्षराणि तु सुगमान्येव यावत्प्रत्यक्षाधिकार इति । उक्तं प्रत्यक्षं, अधुनाऽनुमान
मुक्यते-तथा चाह-'से किं तं अणुमाण?" अनुमान त्रिविधं प्रज्ञप्तं, तद्यथा-पूर्ववत् शेषवत् दृष्टमाधर्म्यवच्चेति । से किं तं पुव्यवमित्यादि, विशे& पत: पूर्वोपलब्धं लि पूर्वमित्युच्यते, तदस्यास्तीति पूर्ववत , तद्वारेण गमकमनुमानं पूर्ववदिति भावः, तथा चाह-'माता पुत्तं' इत्यादि (*११४-८
२१२) माता पुत्रं तथा नएं बालन्यावस्थायां युवानं पुनरागतं कालान्तरेण काचिन स्मृतिमती प्रत्यभिजानीयात् मे पुत्रोऽयभित्यनुभिनुयात् पूर्व| लिङ्गेनोक्तस्वरूपेण केनचित् , तद्यथा-'क्षतेन वे' त्यादि, मत्पुत्रोऽयं तदसाधारणलिंगक्षतोपलध्यन्यथानुपपत्तेः, साधर्म्यवैधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेन , न, हेतोः परमार्थेने कलक्षणत्वात् तत्प्रभावत एवमत्रोपलरधे, उक्तं च न्यायवादिना पुरुषचंद्रेण-"अन्यथानुपएन्न- त्वमात्रं हेतोः स्वलक्षणम् । सवारुचे हि तद्धर्मों, दृष्टान्तद्वयलक्षणः ॥१॥ तदभावतराभ्यां तयोरेव स्वलक्षणायोगादिति भावना, तथा 'धूमादेर्यथापि स्यातां, सत्त्वासत्त्वे च लक्षणे । अन्यथानुपपन्नत्वप्राधान्यालक्षणकता ॥२॥" किंच-"अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम? । 1 इत्यत्र बहु वक्तव्यं, तरच प्रन्थविस्तरभयादन्यत्र च यत्नेनोक्तत्वान्नाभिधीयत इति । प्रत्यक्षविषयत्वादेवास्यानुमानत्वकल्पनमयुक्तं, न, पिण्डपरिच्छित्तावपि पुत्रो न पुत्र इति संदेहात् पिंडमात्रस्य च प्रत्यक्षविषयत्वात मत्पुत्रोऽयमिति चाप्रतीते; तल्लिङ्गत्वादिति कृतं प्रसंगेन, प्रकृतं प्रस्तुमः, तद्भवं क्षतमागन्तुको व्रणः लाञ्छनं मसतिलकाः प्रतीतास्तदेतत्पूर्ववदिति । 'से किं तं सेसव' मित्यादि, उपयुक्ताद्योऽन्यः स सेप इति कायादि गृह्यते, तदस्याम्तीति शेपवद्, भावना पूर्ववदिति, पंचविध प्रज्ञप्तं, तद्यथा 'कार्येणे' न्यादि, तत्र कार्येण कारणानुमानं यथा हयः-अश्वः हिसितेन |
1
॥१०॥