Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
श्रीअनु० हारि . वृत्तौ
॥११६॥
दंसणं च पक्खित्तं, तहावि उक्कोसयं अनंताणंतयं ण पावति, सुत्ताभिप्पायाओ, जओ सुत्ते भणितं तेण परं अजहण्णमणुकोसाईं ठाणाइंति, | अण्णायरियाभिप्पायतो केवलणाणदंसणेसु पक्खित्तेसु पत्तं उक्कोसयं अनंताणंतयं, जओ सब्वमणन्तयभिह, णत्थि अण्णं किंचिदिति, जहिं अणंताणंतयं मग्गिज्जति तहिं वजहण्णमणुकोसयं अणंताणंतयं गहियव्वं, उक्ता गणनासंख्या । 'से किं तं भावसंखा' इत्यादि, प्राकृतशैल्याऽत्र शखाः परिगृह्यन्ते, आइ च य एते इति प्ररूपकप्रत्यक्षा लोकप्रसिद्धा वा जीवा आयुः प्राणादिमन्तः स्वस्वगतिनामगोत्राणि तिर्यग्गतिद्वीन्द्रियौदारिकशरीराङ्गोपाङ्गादीनि नीचेतरगोत्रलक्षणानि कर्माणि तद्भावापन्ना विपाकेन वेदयन्ति त एव भावसंख्या इत्युक्ता भावसंख्या:, 'सेस' मित्यादि निगमनत्रयं समाप्तं प्रमाणद्वारं ॥ अधुना वक्तव्यताद्वारावसरः, तत्राह -
'से किं तं वतव्वया' इत्यादि (१४७ - २४३) तत्राध्ययनादिषु सूत्रप्रकारेण विभागन देशनियतगंधनं वक्तव्यता, इयं च त्रिविधा स्वमयादिभेदात्, तत्र स्वसमयवक्तव्यता यत्र यस्यां णमिति वाक्यालंकारे स्वसमय:- स्वसिद्धान्तः आख्यायते, यथा पंचास्तिकायाः, तद्यथा-धर्मास्तिकाय: इत्यादि, तथा प्रज्ञाप्यते यथा गतिलक्षणो घर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथाऽसावसंख्येयप्रदेशात्मकादिभि:, तथा दश्यते मत्स्यानां जलमित्यादि, तथा निदर्श्यते यथा तथैवैषोऽपि जीवपुद्गलानामिति, उदाहरणमात्रमेतदेवमन्यथापि सूत्रालापयोजना कर्त्तव्येति शेषः, स्वस्तमयवक्तव्यता, परसमयवक्तव्यता तु यत्र परसमय आख्यायत इत्यादि, यथा 'संति पंचमहन्भूया, इहमेगेसि आहियं । पुढवी आऊ य वाऊय, तेऊ आगासपंचमा ॥१॥ एते पंच महन्भूया, तेब्भो एगत्ति आहियं । अह तेसिं विणासेणं, विणासो होइ देहिणो ॥ २ ॥ इत्यादि लोकायत समयवक्तव्यतारूपत्वात् परसमयवक्तव्यतेति शेषसूत्रालापकयोजनापि स्वबुद्ध वा कार्या, सेयं परसमयवक्तंव्यता, स्वसमयपरसमय
वक्तव्यताऽधिकारः
॥ ११६॥
Loading... Page Navigation 1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222