Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 211
________________ श्रीअनुः हारि.वृत्तौ ॥११७॥ RISHN5256**SURES | वक्तव्यता पुनर्यत्र स्वसमयः परसमयश्चाऽऽख्यायेते, यथा ' आगारमावसंतो वा, अरण्ण! वापि पब्वया । इमं दरिसणमावण्णा, सव्वदुक्खा वक्तव्यविमुञ्चती ॥१॥ त्यादि, शेषसूत्रालापकयोजना तु स्वधिया कार्येति, मेयं स्वसमयपरसमयवक्तव्यता ॥ तायां इदानी नयैर्विचारः क्रियते-को नयः? कां वक्तव्यतामिच्छति ?, तत्र नैगमव्यवहारौ त्रिविधां वक्तव्यतामिच्छतः, तद्यथा-स्वसमयवक्त नयविचारः | व्यतामित्यादि, तत्र सामान्यरूपो नैगमः, प्रतिभेदं सामान्यरूपमेवेच्छति, स ह्येवं मन्यते-भिण्णाभिधेया अपि स्वसमयवक्तव्यताऽविशेषात्स्वसमयसामान्यमतिरिक्त (च्य न) वर्तते, व्यतिरेके स्वसमयवक्तव्यताऽविशेषत्वानुपपत्तेः, विशेषरूपः स नैगमो, व्यवहारस्तु प्रतिभेदं भिन्नरूपमेवे. च्छति, पदार्थानां विचित्रत्वादिति, यथाऽस्तिकायवक्तव्यता मूलगुणवक्तव्यतेत्येवमादि, ऋजुसूत्रस्तु द्विविधां वक्तव्यतामिच्छतीत्यादि सयुक्तिक सूत्रसिद्धमेव, त्रयः शब्दनया: शब्दसमभिरूढएवंभूताः एकां स्वसमयवक्तव्यतामिच्छन्ति, शुद्धनयत्वात् , नास्ति परसमयवक्तव्यतेति || च मन्यते, कस्मादेतदेवं ?, यस्मात्परसमयोऽनर्थ इत्यादि, तत्र 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन मिति वचनाद् हेतवस्त एत इति, परसमयानर्थत्वादहेतुत्वादित्येवमादयः, तत्र कथमनर्थ? इति, नास्त्येवात्मेत्यनर्थप्ररूपकत्वादस्य, आत्माभावे प्रतिषेधानुपपत्तेः, उक्तंच'जो चिंतेइ सरीरे णस्थि अहं स एष होइ जीवोत्ति । णहु जविमि असंते संसयउपायओ अण्णो ॥१॥" अहेतु:- हेत्वाभासेन प्रवृत्तेः, | यथा नास्त्येवात्मा अत्यन्तानुपलब्धेः, हेत्वाभासत्वं चास्य ज्ञानादितद्गुणोपलब्धेः, उक्तं च-"ज्ञानानुभवतो दृष्टस्तद्गुणात्मा कथं च न ? । गुणदर्शनरूपं च, घटादिष्वपि दर्शनम् ॥१॥” असद्भावः--असद्भावाभिधानात्, असद्भावाभिधानं चात्मप्रतिषेधेनोक्तत्त्वात् , स्यादेतत्- ॥११॥ सर्वगतत्वादिधम्मेणोऽसत्त्वं रूपादिस्कन्धसमुदायात्मकस्य तु सद्भाव एवेति, न, तस्य भ्रान्तिरूपत्वात् , भ्रान्तिमात्रत्वाभ्युपगमश्च "फेनपिण्डोपमं | रूपं, वेदना बुबुदापमा। मरीचिसदृशी संज्ञा, संस्काराः कदलीनिभाः ॥१॥ मायोपमं च विज्ञानमुक्तमादित्यबन्धुने" त्यादि, अक्रियक्षाणिकै 345ॐॐॐॐॐ545

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222