Book Title: Anuyogdwar Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 199
________________ ॐ श्रीअनुविध्यमानकभेदाद् द्विधैव, तत्र श्रेणिमारोहतो विशुध्यमानकमुच्यते, ततः प्रच्यवमानस्य संक्लिश्यमानकमिति, तथा अथाख्यातं, अथेत्यव्ययं नयप्रमाणे हारि.वृत्ती याथातथ्ये, आमभविधौ, याथातथ्येनाभिविधिना वा ख्यातं, सदेतद् गुणप्रमाण । से किं तं जयप्पमाणे इत्यादि (१४५-२२२) वस्तुनोऽनेकधर्मिण एकेन धर्मेण नयनं नयः स एव प्रमाणमित्यादि पूर्ववत् , त्रिविधं | CI दृष्टान्तः ॥१०५॥ प्रज्ञप्तमित्यत्र नैगमादिभेदान्नयाः, ओघतो दृष्टान्तापेक्षया त्रिविधमेतदिति, तथा चाइ-तद्यथा प्रस्थकदृष्टान्तेन, तद्यथा नाम कश्चित्पुरुषः परशुंकुठारं गृहीत्वा प्रस्थककाष्ठायाटवीमुखो गच्छेज्जा-यायात् , तं च कश्चित्तथाविधो दृष्टा वदेत्-अभिदधीत-क भवान् गच्छति ?, तत्रैव नयमता| न्युच्यन्ते, तत्राऽनेकगमो नेगम इतिकृत्वाऽऽह-अविशुद्धो नैगमो भणति-अभिधत्ते-प्रस्थकस्य गच्छामि, कारणे कार्योपचारात् , तथा व्यवहारदर्शनात् , तं च कश्चिच्छिंदन्तं, वृक्षं इति गम्यते, पश्येत्-उपलभेत, दृष्ट्वा च वदेत्-किं भवान् छिनत्ति?, विशुद्धतरो नैगमो भणति-प्रस्थकं छिनधि, भावना प्राग्वत्, एवं तक्षन्तं-तनूकुर्वन्तं वेधन केन विकिरन्तं लिखन्त-लेखन्या स्रष्टकं कुर्वाणं एवमेव-अनेन प्रकारेण विशुद्धतरस्य नैगमस्य नामाउडियउत्ति-नामाङ्कितः प्रस्थक इति, एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात्तस्य चोक्तवद्विचित्रत्वादिति, 'संग्रहस्ये त्यादि, सामान्यमात्रमाही संग्रहः चितो-धान्येन ब्याप्तः, स च देशतोऽपि भवत्यत आह-मित:-पूरितः, अनेनैव प्रकारण मेयं समारूढं यस्मिन्नाहिताग्नेराकृतिगणत्वात् तत्र वा ग्रहणान्मेयसमारूढः, धान्यसमारूढ इत्यन्ये, प्रस्थक इत्यन्ये, अयमत्र भावार्थ:-प्रस्थकस्य मानार्थत्वाच्छेदावस्थासु च तद्भावाद्यथोक्त एव प्रस्थकः इति, असावपि तत्सामान्यव्यतिरेकेण तद्विशेषाभावादेक एव, ऋजु वर्तमानसमयाभ्युपगमादतीतानागतयोविनष्टानुत्पन्न- ॥१०५॥ त्वेनाकुटिलं सूत्रयति ऋजुसत्रस्तस्य निष्फण्णस्वरूपाक्रियाहेतुः प्रस्थकोऽपि प्रस्थको वर्तमानस्तस्मिन्नेव मानादि प्रस्थकस्तथा प्रतीते:-प्रस्थकोऽयमिति व्यवहारदर्शनात् , नह्यतीतेनानुत्पन्नेन वा मानेन मेयेन वार्थसिद्धिरित्यतो मानमेये वर्तमान एव प्रस्थक इति हृदयं, त्रयाणां शब्दनयाना RRC

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222