SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ ॐ श्रीअनुविध्यमानकभेदाद् द्विधैव, तत्र श्रेणिमारोहतो विशुध्यमानकमुच्यते, ततः प्रच्यवमानस्य संक्लिश्यमानकमिति, तथा अथाख्यातं, अथेत्यव्ययं नयप्रमाणे हारि.वृत्ती याथातथ्ये, आमभविधौ, याथातथ्येनाभिविधिना वा ख्यातं, सदेतद् गुणप्रमाण । से किं तं जयप्पमाणे इत्यादि (१४५-२२२) वस्तुनोऽनेकधर्मिण एकेन धर्मेण नयनं नयः स एव प्रमाणमित्यादि पूर्ववत् , त्रिविधं | CI दृष्टान्तः ॥१०५॥ प्रज्ञप्तमित्यत्र नैगमादिभेदान्नयाः, ओघतो दृष्टान्तापेक्षया त्रिविधमेतदिति, तथा चाइ-तद्यथा प्रस्थकदृष्टान्तेन, तद्यथा नाम कश्चित्पुरुषः परशुंकुठारं गृहीत्वा प्रस्थककाष्ठायाटवीमुखो गच्छेज्जा-यायात् , तं च कश्चित्तथाविधो दृष्टा वदेत्-अभिदधीत-क भवान् गच्छति ?, तत्रैव नयमता| न्युच्यन्ते, तत्राऽनेकगमो नेगम इतिकृत्वाऽऽह-अविशुद्धो नैगमो भणति-अभिधत्ते-प्रस्थकस्य गच्छामि, कारणे कार्योपचारात् , तथा व्यवहारदर्शनात् , तं च कश्चिच्छिंदन्तं, वृक्षं इति गम्यते, पश्येत्-उपलभेत, दृष्ट्वा च वदेत्-किं भवान् छिनत्ति?, विशुद्धतरो नैगमो भणति-प्रस्थकं छिनधि, भावना प्राग्वत्, एवं तक्षन्तं-तनूकुर्वन्तं वेधन केन विकिरन्तं लिखन्त-लेखन्या स्रष्टकं कुर्वाणं एवमेव-अनेन प्रकारेण विशुद्धतरस्य नैगमस्य नामाउडियउत्ति-नामाङ्कितः प्रस्थक इति, एवमेव व्यवहारस्यापि, लोकव्यवहारपरत्वात्तस्य चोक्तवद्विचित्रत्वादिति, 'संग्रहस्ये त्यादि, सामान्यमात्रमाही संग्रहः चितो-धान्येन ब्याप्तः, स च देशतोऽपि भवत्यत आह-मित:-पूरितः, अनेनैव प्रकारण मेयं समारूढं यस्मिन्नाहिताग्नेराकृतिगणत्वात् तत्र वा ग्रहणान्मेयसमारूढः, धान्यसमारूढ इत्यन्ये, प्रस्थक इत्यन्ये, अयमत्र भावार्थ:-प्रस्थकस्य मानार्थत्वाच्छेदावस्थासु च तद्भावाद्यथोक्त एव प्रस्थकः इति, असावपि तत्सामान्यव्यतिरेकेण तद्विशेषाभावादेक एव, ऋजु वर्तमानसमयाभ्युपगमादतीतानागतयोविनष्टानुत्पन्न- ॥१०५॥ त्वेनाकुटिलं सूत्रयति ऋजुसत्रस्तस्य निष्फण्णस्वरूपाक्रियाहेतुः प्रस्थकोऽपि प्रस्थको वर्तमानस्तस्मिन्नेव मानादि प्रस्थकस्तथा प्रतीते:-प्रस्थकोऽयमिति व्यवहारदर्शनात् , नह्यतीतेनानुत्पन्नेन वा मानेन मेयेन वार्थसिद्धिरित्यतो मानमेये वर्तमान एव प्रस्थक इति हृदयं, त्रयाणां शब्दनयाना RRC
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy