________________
नवरसाः
श्रीअनु० हारि.वृत्ती ॥७१॥
णमाह-करुणो रसो यथा 'पज्झाय' गाहा (*७९-१३९) प्रध्यातेन-अतिचिंतया लांतं-बाप्पागतप्रप्लुताक्षं स्यन्दमानाच-च्योतलोचनमिति भावः, शेषं सूत्रसिद्धीमति गाथार्थः। प्रशान्तरसलक्षणमाह-'निद्दोस' गाहा (*८०-१३९) निर्दोषमन:समाधानसंभवः, हिंसादिदोषरहितस्य इंद्रियविषयविनिवृत्त्या स्वस्थमनसो यः प्रशान्तभावेन-क्रोधादित्यागेन अविकारलक्षण:-हास्यादिविकारवर्जितः असौ रस: प्रशान्तो ज्ञातव्य इति गाथार्थः, उदाहरणमाह-प्रशान्तो रसो यथा 'सम्भाव' गाहा (*८१-१३९) सद्भावनिर्विकार' न मातृस्थानत: उपशांतप्रशांतसौम्यदृष्टि-उपशांता-इंद्रियदोषत्यागेन प्रशांता-क्रोधादित्यागतः अनेनोभयेन सौम्या दृष्टिर्यस्मिन् तत्तथा, हीत्ययं मुनेः प्रशांतभावातिशयप्रदर्शने, यथा मुनेः शोभते मुखकमलं पीवरश्रीकं-प्रधानलक्ष्मीकमिति गाथार्थः। 'एते णव' गाहा (८२-१३९) एते नव काव्यरसाः, अनन्तरोदिताः द्वात्रिंशदोपविधिसमुत्पन्ना:-अनृतादिद्वात्रिंशत्सूत्रदोषास्तेषां विधिः समुद्भवा इत्यर्थः, तथाहि-वीरो रसो संग्रामादिषु हिंसया भवति तपःसंयमकरणादावपि भवति, एवं शेषेष्वपि यथासंभवं भावना कार्या, तथा चाह-गाथाभ्यः उक्तलक्षणाभ्यः मुणितव्या भवंति शुद्धा वा मिश्रा वा, शुद्धा इति काश्चिद्गाथा:-सूत्रबंधः अन्यतमरसेनैव शुद्धेन प्रतिबद्धाः, काश्चन मिश्रा: द्विकादिसंयोगेनेति गाथार्थः ॥ उक्तं च नवनाम, अधुना दशनामोच्यत, तथा चाह
'से किं तं दसनाम ? (१३०-१४०) दसनाम दशविधं प्रज्ञप्तं, तद्यथा-'गोणं नोगोण' मित्यादि, एतेषां प्रतिवचनद्वारेण स्वरूपमाह'से किं तं गोणे' गुणनिप्पण्णं गौणं, क्षमतीति क्षमण इत्यादि, 'से किं तं नांगोणे?' नोगोणो-अयथार्थ, अकुंतः सकुंत इत्यादि, अविज्जमानकुंताख्यप्रहरणविशेष एव सकुंत इत्युच्यते, एवं शेषेष्वपि भावनीय। 'से कितं आदाणपदेणं ? २' आदानपदेन धर्मो मंगलमित्यादि, इहादि-15 पदमादानपदमुच्यते । 'से किं तं पडिवक्खपदेणं २ प्रतिपक्षेषु नवेषु-प्रत्यग्रेषु मामाकरनगरखेटकटमडम्बद्रोणमुखपत्तनाश्रमसंबाधस
AAAAAEब
॥ ७१।।