SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ नवरसा: श्रीअनु० किंकर्त्तव्यतावदान्येन आत्मपरिणामः, विषादमरणे प्रतीते इति गाथार्थः । उदाहरणमाह-रौद्रो रसो यथा 'भिउडि' गाहा (*७१-१३७) हारि.वृत्तोलभृकुटि:-ललाटे वलिभंगः, तथा विडंबितं-न्यत्कृतं मुखं यस्य तथाविधः, तस्यामंत्रणं हे भृकुटिविडंचितमुख ! संदष्टोष्ठ-प्रस्तओष्ठ इत्यर्थः, इतः16 ॥७ ॥ इतीतश्चेतश्च रुधिरोत्कीर्ण:-विक्षिप्तरुधिर इति भावः, हंसि-पसुं व्यापादयस्यतः असुरनिभ:-असुराकारः भीमरसित:-भयानकशब्द! अतिरौद्रः | रौद्रो रस इति गाथार्थः। ब्रीडनकलक्षणमाह-'विणओ' गाहा (*७२-१३७) विनयोपचारगुह्यगुरुदारव्यतिक्रमोत्पन्न इति, विनयो-। | पचारादिष व्यतिक्रमशब्दः प्रत्येकमभिसंबद्धयते, भवति रसो ब्रीडनक:. लज्जाशंकाकरण इति गाथार्थ:. उदाहरणमाह-वीडनको रसो यथा | 'किं लोइय' गाहा (*७३-१३७) विदेशाचारोऽतिनववध्याः प्रथमयोन्युड्रेदरक्तरंजितं तन्निवसनमक्षतयोनिसंज्ञापनार्थ पटलकविन्यस्तसंपादितपूजोपचारः सकललोकप्रत्यक्षमेव तद्गुरुजनो परिवंदते इत्येवं चात्मावस्थां सांपुरतो वधूभणति 'किं लौकिकक्रियायाः लज्जनकतरम् ? इह हि लज्जिता भवामि, निवारेज्जा-विवाहो तत्र गुरुजनो परिवदति यद्वधूपोत्ति-वधूनिवसनमिति गाथार्थः । बीभत्सरसलक्षण| माह-'असुई' गाहा (*७४-१३८) अशुचिकुणपदर्शनसंयोगाभ्यासगंधनिष्पन्न:. कारणाशुचित्वादशुचि शरीरं तदेव प्रतिक्षणमासन्नकुणपभावात | कुणपं तदेव च विकृतप्रदेशत्वाद् दुर्दर्शन तेन संयोगाभ्यासात्तद्धोपलब्धेर्वा समुत्पन्न इति निर्वेदाद् विहिंसालक्षणो रसो भवति बीभत्स इति गाथार्थः, उदाहरणमाह-बीभत्सो रसो यथा 'असुई गाहा (*७५-१३८) सूत्रसिद्धं । हास्यलक्षणाभिधित्सयाऽऽह-'रूववय' गाहा (*७६-१३८) | रूपवयोवेषभाषाविपरीतविडम्बनासमुत्पन्नो हास्यो मनःप्रहर्षकारी प्रकाशालिंग:-प्रत्यक्षलिंगो रसो भवतीति गाथार्थः, उदाहरणमाह-'हास्यो | रसो यथा 'पासुत्तमसी' गाहा (*७७-१३९) प्रकटार्था। करुणरसलक्षणमाह-'पियविप्पिओग' गाहा (*७८-१३९) प्रियविप्रयोगबांधव| व्याधिनिपातसंभ्रमात्पन्नः शोचितविलपितप्रम्लानरुदितलिंगो रसः करुणः, तत्र शोचित-मानसो विकारः, शेष प्रकटार्थमिति गाथार्थः, उदाहर ॥ ७० ॥
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy