SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ नवरसाः श्रीअनु० 'से किं तं नवनामे' इत्यादि, (१२९-१३५ ) नवनाम्नि नव काव्यरसाः प्रज्ञप्ताः, रसा इव रसा इति, उक्तं च-"मिदुमधुरिभितसु-18 हारि.वृत्ती भतरणीतिणिदोसभीसणाणुगता । मुहदुहकम्मरसा इव कव्वस्स रसा हवंतेते ॥ १ ॥'वीरो सिंगारों' इत्यादि (*६३-१३५) वीरः शंगारः अद्भुतश्च रौद्रश्च भवति बोद्भव्यः बीडनको बीभत्सो हास्यः करुणः प्रशान्तश्च, एते च लक्षणत उदाहरणतश्चीच्यते-तत्र वीररसलक्षण॥६९॥ माभधित्सुराह-'तत्थ' गाहा (*६४-१३६) व्याख्या-तत्र परित्यागे च तपश्चरणे-तपोऽनुष्ठाने शत्रुजनविनाशे च-रिपुजनव्यापत्ती च यथा| संख्यमननुशयधृतिपराक्रमलिङ्गो वीरो रसो भवति, परित्यागेऽननुशयः नेदं मया कृतमिति गर्व करोति, किं वा कृतमिति विषाद, तपश्चरणे ला धृति न त्वार्तध्यानं, शत्रुजनविनाशे च पराक्रमो न वैक्लव्यम् , एतल्लिंगो वीरो रसो भवति, उदाहरणमाह-' वीरो रसो यथा-'सो नाम' गाहा MI(*६५-१३६) निगद सिद्धा, 'सिंगारोणाम रसो' (*६६-१३६) शृंगारो नाम रस:, किंविशिष्ट इत्याह-'रतिसंयोगाभिलाषसजनन: तत्कार-1 णानि, मंडनविलासविब्योकहास्यलीलारमणलिंगो, तत्र मंडनं कटकादिभिः विलास:-कामगर्भो रम्यो नयनादिविभ्रम: विब्बोकः देशी पदं | अंगजविकारार्थे हास्यलीले प्रतीते रमणं-क्रीडनं एतच्चिन्ह इति गाथार्थः, उदाहरणमाह-शंगारो रसो यथा 'मधुर' गाहा, (*६७-१३६) निगदसिद्धा, अब्भुतलक्षणमाह-'विम्यकरो' गाहा (*६८-१३६) विस्मयकर: अपूर्वो वा तत्प्रथमतयोत्पद्यमानो भूतपूर्वे वा पुनरुत्पन्ने यो| दरसो भवति स हविषादोत्पत्तिलक्षण: तीजत्वात् अद्भूतनामेति गाथार्थः, उदाहरणमाइअब्भुतो रसो यथा 'अद्भुततरं' गाहा (*६९-१३६) निगदसिद्धा । रौद्ररसलक्षणमाह-'भयजणण' गाहा (*७०-१३७) भयजननरूपशब्दान्धकारचिंताकथासमुत्पन्न इत्यत्र भयजननशब्दः रूपादीनां प्रत्येकमभिसंबद्धयते, भयजननरूपदर्शनात् समुत्पन्न एव भयजननशब्दश्रवणाद्भयजननांधकारयोगात् भयजननचिन्तासमूद्भूतः | भयजननकथाश्रवणात समुत्पन्न:-संजातः, किंविशिष्ट ? इत्यत्राह-'सम्मोहसंभ्रमविषादमरणलिंगो रौद्रः, तत्र सम्मोहः--अत्यन्तमूढता संभ्रम: MARWARA RECAकर ॥६ - C
SR No.600289
Book TitleAnuyogdwar Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages222
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy