Book Title: Anusandhan 1997 00 SrNo 10 Author(s): Shilchandrasuri Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 8
________________ रिक्तफलाजनकत्वं, मङ्गलेन प्रधानफलातिरिक्तस्य प्रधानस्यैव जननात् । नाऽपि प्रधानतत्फलातिरिक्तफलाजनकत्वं, विघ्नध्वंसस्य तदुभयभिन्नस्य जननात् । तथापि अधिकाररूपकामनाविषयप्रधानतत्फलातिरिक्तफलाजनकत्वमेवाऽङ्गत्वम् । विघ्नध्वंसकामना तु नाऽधिकाररूपा, यत्कामनया प्रवर्तते तस्या एवाऽधिकाररूपत्वात् । सा च प्रस्तुते समाप्तिकामनैव। न चैवं खादिरताऽङ्गं न स्यात, अधिकाररूपकामनाविषयवीर्यलक्षणफलसाधनत्वादिति वाच्यं, वीर्यस्य प्रधानव्यतिरेकेण व्यतिरेके प्रधान फलत्वादेव। न हि यागं विक्रियमाणः खादिरो यूपो वीर्याय भवतीत्यन्यत्र विस्तरः । मङ्गलं प्रधानं, अदृष्टं द्वारं, समाप्तिः फलमित्येके। विघ्नसंसर्गाभाव एव द्वारमित्यपरे। मङ्गलं प्रधानं, विघ्नप्रागभाव एव फलमित्यन्ये । मङ्गलं प्रधानं, विघ्नध्वंस: फलमिति चिन्तामणिकृतः । तत्र चिन्तामणिकारीय एवं पक्षश्चेतसि चमत्कारमादधानः पक्षान्तरस्पृहामपि निवर्तयति। तथाहि- न तावन्मङ्गलं समाप्तिकारणं, अन्वयव्यतिरेकव्यभिचाराभ्यां मङ्गले सत्यप्यसमाप्तेः, मङ्गलं विनाऽपि समाप्तेः । न च नाऽन्वयव्यभिचारो दोषाय, दण्डे सति क्वचिद् घटाभावदर्शनात्, दण्डस्य कारणत्वाभावापत्तेरिति वाच्यं, लौकिकस्थले तस्याऽदोषत्वेऽपि वैदिकस्थले दोषत्वात् । अन्यथाऽन्वयव्यभिचारशङ्कया वैदिके कर्मणि क्वापि निःशङ्कं न प्रवर्तेत । न चाऽयं प्रधानो नियमो न त्वङ्गे कृतप्रयाजस्यापि ज्योति:ष्टोमं विना स्वर्गादर्शनादिति वाच्यं, तथापि व्यतिरेकव्यभिचारस्य वज्रलेपत्वात् । प्रयाजं विना स्वर्गाभाव इति व्यतिरेकस्य प्रयाजेऽङ्गेऽपि सत्त्वात्, प्रकृते तदभावाच्च । अत्र केचित् जन्मान्तरीयमङ्गलस्य तत्र कारणत्वेन न व्यतिरेकव्यभिचार इत्याहुः। तन्न, ऐहिकसमाप्ति प्रति जन्मान्तरीयमङ्गलस्याऽहेतुत्वात् । 'इदं मे समाप्यतां' इति कामनया क्रियमाणस्य तस्य तदानींतनसमाप्तिकारणताङ्गीकारात् । पुढेष्ट्यादौ तु ऐहिकपुत्रबाधे आमुष्मिकं फलं कल्प्यते, तत्र सामान्यतः पुत्रमात्रस्य कामनाश्रवणात् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 126