Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
अलंकारसर्वस्वम् ।
विस्तरभयान्नोच्यन्ते । उदाहरणं मदीये श्रीकण्ठस्तवे यथा'अहीनभुजगाधीशवपुर्व लयकङ्कणम् । शैलादिनन्दिचरितं क्षतकंदर्पदर्पकम् ॥ वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् । ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् ॥' 'दारुणः काष्ठतो जातो भस्मभूतिकरः परः । रक्तशोणाचैिरुच्चण्डः ः पातु वः पावकः शिखी ॥' एतच्च सुबन्तापेक्षया । तिङन्तापेक्षया च यथा तत्रैव — 'भुजंगकुण्डली व्यक्त शिशुभ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः ||'
१९
शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च । अलंकार प्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते । इति द्वैविध्यमेव स्वरव्यञ्जनसमुदायपौनरुक्त्यं च ।
कार्यालंकरणभावात्तस्याश्रयाश्रयिभावेनोपपत्तेः । अत एव सर्वेषामेवार्थालंकाराणामुपमितार्थादिवादित्वाच्छब्दस्य तदलंकारत्वं स्यादित्युक्तम् । नापि तृतीयः । पुनरुक्तवदाभासमित्यन्वर्थसंज्ञाश्रयणात् । पौनरुक्त्याख्यधर्मप्रयोजकीकारेणालंकारस्योपक्रान्तत्वात् श्लिष्टत्वस्येद्दानौपयिकत्वात् । तत्पुनरत्रार्थपौनरुक्त्यावगमे निमित्तमात्रम् । निमित्तनिमित्तिभावश्च नालंकारत्वप्रयोजक इत्यविवादः । तस्मादर्थाश्रयत्वात्पौनरुक्त्यस्य तदलंकारत्वमेवेति युक्तम् । एवं वक्रलंकारतापि निरस्ता । सर्वेषामपि वऋतिशयरूपत्वात्तथात्वानुपपत्तेः । विस्तरभयादिति । न तु चित्रत्वाभावात् । नोच्यन्त इति । वस्तुतस्तु संभवन्त्येवेत्यर्थः । अतश्चायं प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथमं द्विधाभवन्समस्तासमस्तपदत्वेन चतुर्विधः । क्रमेण यथा-' - 'तुहिनक्षितिभृद्युष्मान्पातात्सर्वत्र सर्वदा ख्यातः । हिमवानवतु सदा वो विश्वत्र समागतः ख्यातिम् ॥ ' ' नदीप्रकरमुल्लिङ्गितवन्तं मनोहरहस्तमत्यजन्तं च, सपर्याणां रुचिं वहन्तं सर्वत्र पूजनीयं च, सकुम्भं सकलशंचरन्तं च, सदानदन्तं मदपर्याविलदशनं करटं कमपि बिभ्रतं कवाटविभ्रमममुञ्चन्तं च कुञ्जराजिवर्धितरुचिं वारणरणरणिकाकुलितं च, राजमानविसंधायिनं विराजमानं च, शारीभूतं मदसलिलेन शबलीभूतं च, इति पुनरुक्ताश्रयम्' इत्यनङ्ग लेखायां हस्तिवर्णने । 'बतहन्तासितः कालो गोविभावसुदी - धितीः । क्षिपास्य रक्षावसितश्वेतराजयशोभय ॥' असमस्तपदं तु ग्रन्थकृतैवोदाहृतम् । केवलस्वरपौनरुक्त्यं किं न गणितमित्याशङ्कयाह - अलंकारेत्यादि । यथा - 'इन्दीव१. ' तथात्वोपपत्तेः.' ख.
च,

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218