Book Title: Alankar Sarvasvam
Author(s): Durgaprasad Pandit, Kasinath Pandurang Parab
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 85
________________ अलंकारसर्वस्वम् । 'आ मुण्डशिरसि बदरफलं बदरोपरि बदरं स्थिरं धारयसि । जुगुप्सस्यात्मानं नागरिक विदग्धाश्छल्यन्ते ॥' क्वचित्पुननिषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः संबन्धानुपपत्त्यापि भवति । यथा'उत्कोपे त्वयि किंचिदेव चलति द्राग्गूर्जरमाभृता मुक्ता भून परं भयान्मरुजुषां यावत्तदेणीदृशाम् । पद्भ्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः ॥' अत्र मुक्तेति निषेधपदं तदन्यथानुपपत्त्या पादयोर्हसगतिप्राप्तिराक्षिप्यते । सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्धनिबन्धना निदर्शना । भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः । अधुना भेदप्राधान्येनालंकारकथनम् । भेदो वैलक्षण्यम् । स च द्विधा भवति । उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् । विपर्ययो न्यूनगुणत्वम् । क्रमेणोदाहरणम्यत्वम् । यथा वा-त्वद्वक्त्रलावण्यमिदं मृगाक्षि संलक्ष्यते पत्युरपि क्षपायाः। कथं त्वनेनाहृतमेतदद्य कलावतां वा किमसाध्यमस्ति ॥' अत्र चाटुषु नायिकायाः प्रस्तुतत्वाद्वऋमुपमेयम् । तद्धर्मस्य च लावण्यस्योपमाने शशिन्यसंभवः । एष इत्यसंभवद्वस्तुसंबन्धनिबन्धनो वा वाच्यः । आक्षिप्ताया इति । प्राप्तिपूर्वकत्वानिषेधस्य । सेति प्राप्तिः । सादृश्यमिति । पादयो«सगतितुल्याया गतेः प्रतीतेः । इयं च सामान्यस्यानुगामितया । यथा-अव्यात्स व इत्यादि । अत्र निसर्गवक्रताख्यधर्मस्यानुगामित्वम् । शुद्धसामान्यरूपत्वेन यथा-'हारेणामलकस्थूलमुक्तेनामुक्तकुन्तलः । फणीन्द्रबद्धतटस्य श्रियमाप स धूर्जटेः ॥' अत्रामुक्तबद्धयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावेन । यथा-'उह सरसदन्तमण्डलकपोलपडिमागओ मअच्छीइ । अन्ते सिन्दुरिअसलवत्तकरणिं वहइ चन्दो ॥' अत्र दन्तमण्डलसिन्दूरितत्वयोबिम्बप्रतिबिम्बभावः । भेदप्राधान्य इत्यादि । अधुनेति प्राप्तावसरम् । भेदस्य चात्र प्राधान्यादभेदस्य वस्तुतः सद्भावः । १. इयं प्राकृतच्छाया क-पुस्तके वर्तते, प्राकृतं तु नास्ति. ख-पुस्तके तु 'मुंडभिदिवोरफलवरोकरीवलो अर्थिरधरिसि । विगुश्वावसि अप्पाणालिआ छेआ छलिंगाति ॥' इत्यत्यशुद्धं प्राकृतमस्ति. २. 'यत्कोपे' ख. ३. 'असंभवत्संभवनिदर्शना' क.

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218